ब्रह्माद्याकृता श्रीगणनाथस्तुतिः PDF संस्कृत
Download PDF of Gananathastutih Brahmadyakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
ब्रह्माद्याकृता श्रीगणनाथस्तुतिः संस्कृत Lyrics
|| ब्रह्माद्याकृता श्रीगणनाथस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
ब्रह्माद्या ऊचुः ।
अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् ।
मनोवचोहीनमनोवचःस्थं नमामहे तं गणनाथमीड्यम् ॥ २४॥
अजं पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् ।
चतुःप्रचालं परमार्थभूतं नमामहे तं गणनाथमीड्यम् ॥ २५॥
जगत् स्वकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् ।
विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २६॥
तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं स्वधीस्थम् ।
अयोगरूपेण निवृत्तिसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २७॥
प्रभुं स्वभक्तस्य सुशान्तिकारं सुशान्तिगं यं गजवक्त्रधारम् ।
चतुर्भुजं ह्येकरदं त्रिनेत्रं नमामहे तं गणनाथमीड्यम् ॥ २८॥
महोदरं पाशधरं सुसिद्धिप्रदं विभुं बीजममोघवीर्यम् ।
परात्परं शूर्पश्रुतिं गणेशं नमामहे तं गणनाथमीड्यम् ॥ २९॥
नमस्ते सृष्टिकर्त्रे ते ब्रह्मणे पालकाय च ।
विष्णवे शम्भवे तुभ्यं संहर्त्रे वै नमो नमः ॥ ३०॥
अनाथानां प्रणाथाय शक्तये मोहधारिणे ।
कर्मणे भानवे चैव हेरम्बाय नमो नमः ॥ ३१॥
मयूरेशाय देवाय मयूरध्वजधारिणे ।
विघ्नेशाय महाविघ्नचालकाय नमो नमः ॥ ३२॥
किं स्तुमस्त्वां गणेशान ब्रह्मणां ब्रह्मरूपिणम् ।
यत्र देवादयः शान्तिं गच्छन्ति स्म निरन्तरम् ॥ ३३॥
अतो नमामहे नाथ तेन तुष्टो भवस्व च ।
भक्तान् रक्ष महाभक्तिप्रिय विघ्नेश आदरात् ॥ ३४॥
एवमुक्त्वा प्रणेमुस्ते गणेशं भक्तिसंयुताः ।
साश्रुनेत्राः सरोमाञ्चास्तानुत्थाप्य जगाद सः ॥ ३५॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
पठतां शृण्वतां देवा सर्वं दास्यामि वाञ्छितम् ॥ ३६॥
वरं ब्रूत विशेषेण दास्यामि मनसीप्सितम् ।
तपसा स्थापनेनैव ह्यहं स्तोत्रेण तोषितः ॥ ३७॥
इति ब्रह्माद्याकृता श्रीगणनाथस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowब्रह्माद्याकृता श्रीगणनाथस्तुतिः
READ
ब्रह्माद्याकृता श्रीगणनाथस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
