गणनाथस्तुतिः वैराटदेवेन कृता PDF संस्कृत
Download PDF of Gananathastutih Vairatadevenakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
गणनाथस्तुतिः वैराटदेवेन कृता संस्कृत Lyrics
|| गणनाथस्तुतिः वैराटदेवेन कृता ||
श्रीगणेशाय नमः ।
पार्वत्युवाच ।
श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् ।
कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ १॥
शिव उवाच ।
पञ्चकोटिप्रविस्तारे योजनानां समन्ततः ।
तस्य देहे च भूतानि स्थावराणि चराणि च ॥ २॥
संस्थितानि च सर्वाणि भुवनानि चतुर्दश ।
तत्तेऽहं संप्रवक्ष्यामि समाहितमनाः शृणु ॥
पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् ।
पार्ष्ण्योर्महातलं तस्य जङ्घयोश्च तलातलम् ॥ ४॥
सुतलं जानुभागेऽस्य वितलं तूरुमण्डले ।
अतलं कटिसन्धौ च कटयां भूलोकसंस्थितिः ॥ ५॥
नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः ।
महर्लोकश्च कण्ठे वै जनो लोको मुखे स्थितः ॥ ६॥
तपो लोको ललाटे च सत्यलोकः शिरःस्थितः ।
एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥ ७॥
सहस्रशीर्षशोभाढ्यः सहस्राननपादवान् ।
सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥ ८॥
सर्वत्र व्याप्यभावेन स्थितोऽसौ परमेश्वरः ।
मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥ ९॥
तस्यान्तरे स्थितं रूपं नाम्ना हैरण्यगर्भकम् ।
एतादृशं तथा स्वप्नं विश्वरूपं विराजति ॥ १०॥
बहिर्वैश्वानरश्चायं जाग्रद्वैराटसंज्ञितः ।
हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥ ११॥
उभयोः समभावेन बाह्यान्तरसरूपतः ।
ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥ १२॥
त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति ।
तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥ १३॥
अथ शृणु विभिन्नानामुत्पत्तिं त्वल्पभावनाम् ।
नानाभावधरां तां वै चराचरमयीं पराम् ॥ १४॥
विराडज्ञानभावेनावृतस्तेन तपः कृतम् ।
एकाक्षरविधानेन गणेशं सन्दधौ हृदि ॥ १५॥
सोऽतपत्तप उग्रं च दिव्यवर्षसहस्रकम् ।
तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥ १६॥
बोधयामास तं देवो वरं ब्रूहीति सोऽब्रवीत् ।
गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥ १७॥
धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् ।
धन्या मे सम्पदो देव त्वदङ्घ्रियुगदर्शनात् ॥ १८॥
इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् ।
वाचा संस्पष्टया हृष्टो भगवान् विश्वधारकः ॥ १९॥
विराडुवाच ।
नमस्ते गणनाथाय गणानां पतये नमः ।
विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥ २०॥
सिद्धिबुद्धिपते तुभ्यं नानासिद्धिप्रदायिने ।
नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥ २१॥
मनोवागतिभूताय योगिनां हृदि वासिने ।
नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥ २२॥
नमो नमो महेशाय शिवाय शिवदायिने ।
सर्वत्र समभावाय विष्णव प्रभविष्णवे ॥ २३॥
तेजोराशिपते तुभ्यं भानवे ते नमो नमः ।
नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥ २४॥
स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च ।
सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥ २५॥
सर्वेभ्यो भिन्नरूपाय मायाहीनाय ते नमः ।
मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥ २६॥
गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः ।
अतो मयि गणेशान कृपयाऽनुग्रहं कुरु ॥ २७॥
इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् ।
वैराटः पुरुषस्तत्र कृताञ्जलिपुटःस्थितः ॥ २८॥
भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः ।
वरं वरय दास्यामि शङ्कां मा कुरु विश्वप ॥ २९॥
इदं त्वया कृतं स्तोत्रं मम प्रीतिकरं भवेत ।
यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥ ३०॥
यं यं चिन्तयते कामं तं तं दास्यामि वाञ्छितम् ।
भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥ ३१॥
इति वैराटदेवेन कृता गणनाथस्तुतिः समाप्ता । १.१०
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगणनाथस्तुतिः वैराटदेवेन कृता
READ
गणनाथस्तुतिः वैराटदेवेन कृता
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
