गणनायकाष्टकम् PDF संस्कृत
Download PDF of Gananayak8 Sanskrit
Shri Ganesh ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
गणनायकाष्टकम् संस्कृत Lyrics
|| गणनायकाष्टकम् ||
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥ १॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् ।
बालेन्दुसुकलामौलिं वन्देऽहं गणनायकम् ॥ २॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् ।
भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥ ३॥
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् ।
चित्ररूपधरं देवं वन्देऽहं गणनायकम् ॥ ४॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् ।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥ ५॥
मूषकोत्तममारुह्य देवासुरमहाहवे
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥ ६॥
यक्षकिन्नरगन्धर्वैस्सिद्धविद्याधरैस्सदा
स्तूयमानं महाबाहुं वन्देऽहं गणनायकम् ॥ ७॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम् ।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥ ८॥
गणाष्टकमिदं पुण्यं यः पठे सततं नरः
सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत् ॥ ९॥
इति श्रीगणनायकाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगणनायकाष्टकम्
READ
गणनायकाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
