श्रीगणेशद्वादशाङ्गेषुमन्त्राः PDF संस्कृत
Download PDF of Ganeshadvadashangeshumantrah Sanskrit
Shri Ganesh ✦ Mantra (मंत्र संग्रह) ✦ संस्कृत
श्रीगणेशद्वादशाङ्गेषुमन्त्राः संस्कृत Lyrics
|| श्रीगणेशद्वादशाङ्गेषुमन्त्राः ||
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् ।
सर्वाङ्गलेपनेनैव तत्र मन्त्रान् शृणु प्रभो ॥ ११॥
गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् ।
स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ १२॥
ललाटं गणनाथाय नम उच्चार्य चार्चयेत् ।
दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ १३॥
वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः ।
अर्चयेच्च ततः कण्ठं विघ्नेशाय ततः पठन् ॥ १४॥
बाहुं दक्षिणगं तद्वद् हेरम्बाय नमोऽर्चयेत् ।
वामं समर्चयेत् सुज्ञः सिद्धिनाथाय वै नमः ॥ १५॥
हृदयं चार्चयेत्तत्र बुद्धीशाय नमो विधे ।
उदरं नाभिसंस्थानं नमो लम्बोदराय ते ॥ १६॥
दक्षिणं चैव कुक्षिं स वक्रतुण्डाय वै नमः ।
वामं तु चिन्तामणये ह्यर्चयेन्नात्र संशयः ॥ १७॥
पृष्ठदेशं नाभिसममर्चयेत् ढुण्ढये नमः ।
एते द्वादश मन्त्राश्च कथितास्ते प्रजापते ॥ १८॥
इति श्रीगणेशद्वादशाङ्गेषुमन्त्राः सम्पूर्णाः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगणेशद्वादशाङ्गेषुमन्त्राः
READ
श्रीगणेशद्वादशाङ्गेषुमन्त्राः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
