मुद्गलकृतं गणेशकवचम् PDF संस्कृत
Download PDF of Ganeshakavacham Mudgalakrrita Sanskrit
Shri Ganesh ✦ Kavach (कवच संग्रह) ✦ संस्कृत
मुद्गलकृतं गणेशकवचम् संस्कृत Lyrics
|| मुद्गलकृतं गणेशकवचम् ||
मुनिरुवाच ।
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायान्तु मयूरवाहनमिमं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ १८॥
विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ १९॥
ललाटं काश्यपः पातु भ्रूयुगन्तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ ॥ २०॥
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥ २१॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ २२॥
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥ २३॥
धराधरः पातु पार्श्वे पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ २४॥
गणक्रीडो जानुजङ्घे ऊरुमङ्गलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ २५॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान् पातु पद्महस्तोऽरिनाशनः ॥ २६॥
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत् स्थानं धूम्रकेतुः सदाऽवतु ॥ २७॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ २८॥
दक्षिणस्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद् वायव्यां गजकर्णकः ॥ २९॥
कौबेर्य्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ ३०॥
राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ॥ ३१॥
ज्ञानं धर्मञ्च लक्ष्मीञ्च लज्जां कीर्तिं दयां कुलम् ।
वपुर्धनं चधान्यं चगृहान् दारान् सुतान् सखीन् ॥ ३२॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात् सदा ।
कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ॥ ३३॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः ।
न भयं जायते तस्य यक्षरक्षः पिशाचतः ॥ ३४॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद् यस्तु निर्विघ्नेन फलं लभेत् ॥ ३५॥
युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद् ध्रुवम् ।
मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ॥ ३६॥
सप्तवारं पठेद् यस्तु दिनानामेकविंशतिम् ।
तत् तत् फलमवाप्नोति साधको नात्र संशयः ॥ ३७॥
एकविंशतिवारञ्च पठेत् तावद् दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं चमोचयेत् ॥ ३८॥
राजदर्शनवेलायां पठेदेतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतिं चसभां जयेत् ॥ ३९॥
इदं गणेशकवचं मुद्गलेन समीरितम् ।
कश्यपाय च तेनाऽथ माण्डव्याय महर्षये ॥ ४०॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥
सर्वरक्षाकरं सर्वमनःकामप्रपूरकम् ॥ ४१॥
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत् क्वचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ ४२॥
इति श्रीगणेशपुराणान्तर्गतं मुद्गलकृतं गणेशकवचं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowमुद्गलकृतं गणेशकवचम्
READ
मुद्गलकृतं गणेशकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
