श्रीगणेशमानसपूजास्तोत्रम् PDF संस्कृत
Download PDF of Ganeshamanasa Puja Stotram Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगणेशमानसपूजास्तोत्रम् संस्कृत Lyrics
|| श्रीगणेशमानसपूजास्तोत्रम् ||
श्रीजगद्गुरु शृङ्गेरी
श्रीचन्द्रशेखरभारती स्वामि अनुगृहीता
वात्सल्यभाजनमगाधिपकन्यकाया
मात्सर्यशून्यहृदयैर्भुवि भावनीयम् ।
प्रत्यूहजातविनिपातनलब्धवर्ण-
मत्यूर्जितं हृदि भजामि गणाधिनाथम् ॥ १॥
आवाहयामि गणनाथमुमामहेश-
सर्वस्वभूतमपनीतदुरन्तरायम् ।
योगीन्द्रमानससरोरुहंसविकास-
लीलाविशेषचतुरं निगमान्तनिष्ठम् ॥ २॥
माणिक्यमञ्जुलमरीचिमनोज्ञपार्श्वं
सान्द्रीभवन्मरकतावलिमेचकाभम् ।
मुक्तामणिप्रकरमेदुरितान्तरालं
रत्नासनं तव हृदा परिकल्पयामि ॥ ३॥
गङ्गादिपुण्यसरितां परिपूततीर्थैः
पाद्यं तवाद्यवधिशून्य समर्पयामि ।
अर्घ्यं ददाम्यहमनर्घगुणाभिराम
प्रत्यूहवारण सुवारणवक्त्र तुभ्यम् ॥ ४॥
प्रत्याहृतैरखिलपुण्यसरिद्वराभ्य-
स्तीर्थैर्ददाम्यमलमाचमनं च तुभ्यम् ।
सूक्तादिमन्त्रनिवहैरभिमन्त्रितैश्च
पुण्योदकैस्तव शिरः स्नपयाम्यजस्रम् ॥ ५॥
आचूडमाचरणमप्यभिषिच्य तीर्थैः
आलोक्यन्नखिलमङ्गलमाननं ते ।
आनन्दनिर्भरमनाश्चुलुकीकृताक्षः
किं वा भवामि सफलीकृतपुण्यजन्मा ॥ ६॥
कस्तूरिकाघुमुघुमीकृतचन्दनानि
दिव्यं दुकूलयुगलं च ददामि तुभ्यम् ।
यज्ञोपवीतमभिमन्त्रितमर्पयामि
दिव्यान्श्च भूषणगणान् प्रतिपादयामि ॥ ७॥
जातिसुचम्पकसरोरुहकुन्दमल्ली
बिल्वादिभिर्बहुविधैरितरैश्च पुष्पैः ।
त्वामर्चयन्नमरसंहितसेव्यमानं
आराद्भजामि तु कदा कृतकृत्यभावम् ॥ ८॥
स्वामिन् ददाम्यगरुगुग्गुलुचन्दनादि
धूपान् सुगन्धभरितान् शिवसूनवे ते ।
आज्यप्लुतामलसुवर्तिभिरेधमान-
मादर्शयामि ननु ते तपनीयदीपम् ॥ ९॥
चोष्यैश्च भक्ष्यनिवहैश्च करम्बितं ते
भोज्यं ददामि गणनायक दिव्यमन्नम् ।
आमोदकं च गिरिजासुत मोदकानां
स्वामिन् परश्शतमपि प्रतिपादयामि ॥ १०॥
आनम्रनाकिगणमञ्जुलमौलिमाला-
नीराज्यमानचरणद्वय विघ्नहन्तः ।
कर्पूरदीपनिवहैस्तव पादपद्मं
नीराजयामि ननु मां परिपाहि भक्तम् ॥ ११॥
पुष्पाञ्जलिं प्रचुरयामि सुवर्णपुष्पैः
सन्मन्त्रपुष्पमपि च प्रतिपादयामि ।
सर्वोपचारपनिवहांश्च समर्पयामि
स्वामिन् गणाधिप समुद्धर मां भवाब्धेः ॥ १२॥
नारोग्यमद्य कलये न च भोग्यजातं
भाग्यं न वा विषयलम्पटतानिदानम् ।
वैराग्यमेव सुतरामुपलम्भयन् मां
स्वामिन् समुद्धर भवाम्बुनिधेर्दुरन्तात् ॥ १३॥
इत्थं गणाधिपतिमानसपूजनं यः
कैवल्यदं सुललितं पठतीह भक्त्या ।
नागामिजन्मभयमस्ति हि तस्य पुंसः
कैवल्यसौधमचिरादनुवीक्षते सः ॥ १४॥
इति श्रीजगद्रुरु श्रीशृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती
श्रीपादैः विरचितं श्रीगणेशमानसपूजास्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगणेशमानसपूजास्तोत्रम्
READ
श्रीगणेशमानसपूजास्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
