श्रीगणेशमन्त्रप्रभावस्तुतिः PDF संस्कृत
Download PDF of Ganeshamantraprabhavastutih Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीगणेशमन्त्रप्रभावस्तुतिः संस्कृत Lyrics
|| श्रीगणेशमन्त्रप्रभावस्तुतिः ||
ओमित्यादौ वेदविदो यं प्रवदन्ति
ब्रह्माद्या यं लोकविधाने प्रणमन्ति ।
योऽन्तर्यामी प्राणिगणानां हृदयस्थः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ १॥
गङ्गागौरीशङ्करसन्तोषकवृत्तं
गन्धर्वालीगीतचरित्रं सुपवित्रम् ।
यो देवानामादिरनादिर्जगदीशः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ २॥
गच्छेत्सिद्धिं यन्मनुजापी कार्याणां
गन्ता पारं संसृतिसिन्धोर्यद्वेत्ता ।
गर्वग्रन्थेर्यः किल भेत्ता गणराजः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ३॥
तण्येत्युच्चैर्वर्णजमादौ पूजार्थं
यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम् ।
बीजं ध्यातुः पुष्टिदमाथ्वरणवाक्यैः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ४॥
पद्भ्यां पद्मश्रीमदहृद्भ्यां प्रत्यूषे
मूलाधाराम्भोरुह भास्वद्भानुभ्याम् ।
योगी यस्य प्रत्यहमजपार्पणदक्षः
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ५॥
तत्त्वं यस्य श्रुतिगुरुवाक्यैरधिगत्य
ज्ञानी प्रारब्धानुभवान्ते निजधाम ।
शान्ताविद्यस्तत्कृतबोधः स्वयमीयात्
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ६॥
ये ये भोगा लोकहितार्थाः सपुमार्थाः
ये ये योगाः साध्यसुलोकाः सुकृतार्थाः ।
ते सर्वे स्युर्यन्मनुजपतः पुरुषाणां
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ७॥
नत्वा नित्यं यस्य पदाब्जं मुहुरर्थी
निर्द्वैतात्माखण्डसुखः स्याद्धतमोहः ।
कामान्प्राप्नोतीति किमाश्चर्यमिदानीं
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ८॥
मस्तप्रोद्यच्चन्द्रकिशोरं करिवक्त्रं
पुस्ताक्षस्रक्पाश सृणीस्फीतकराब्जम् ।
शूर्पश्रोत्रं सुन्दरगात्रं शिवपुत्रं
तं विघ्नेशं दुःखविनाशं कलयामि ॥ ९॥
सिद्धान्तार्थां सिद्धिगणेशस्तुतिमेनां
सुब्रह्मण्याह्वयसूर्युक्तामनुयुक्ताम् ।
उक्त्वा श्रुत्वापेक्षितकार्यं निर्विघ्नं
मुक्त्वा मोहं बोधमुपेयात्तद्भक्तः ॥ १०॥
इति श्रीसुब्रह्मण्ययोगिकृता श्रीगणेशमन्त्रप्रभावस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगणेशमन्त्रप्रभावस्तुतिः
READ
श्रीगणेशमन्त्रप्रभावस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
