श्रीगणेशपञ्चाशन्नामस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshapanchashatnamastotram Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीगणेशपञ्चाशन्नामस्तोत्रम् संस्कृत Lyrics
|| श्रीगणेशपञ्चाशन्नामस्तोत्रम् ||
श्री गणेशाय नमः ।
ऋषय ऊचुः ।
गणेशो गणनाथश्च हेरम्बो गिरिशात्मजः ।
पार्वतीनन्दनो वीरो देवराजो गजाननः ॥ १॥
लम्बोदरो विघ्नराजो योगी सद्योगलक्षणः ।
अग्रपूज्यश्चतुर्बाहुरेकदन्तो लिपीश्वरः ॥ २॥
व्याघ्रचर्माम्बरो धीरः सदामङ्गलरूपवान् ।
शुक्लास्यो मूषिकारोही केवलो मोक्षदायकः ॥ ३॥
पद्मी दन्तकरो दन्ती वैष्णवः परमार्थदृक् ।
पञ्चपाणिः पञ्चवक्त्रः शिवः शङ्कर ईश्वरः ॥ ४॥
हरिगाता नृत्यकारी शिवपुत्रः स्रवन्मदः ।
आनन्दान्दोलितमनाः शैवो धर्मो धनेश्वरः ॥ ५॥
अनन्तो जगदाधारः शशिसूर्यविलोचनः ।
समुद्रपाता सामुद्रः समुद्रजठरो यमः ॥ ६॥
दिव्यरूपो वारिनाथो जयश्च विजयस्तथा ।
नामान्येतानि पञ्चाशद्गणेशस्य पठेन्नरः ॥ ७॥
यात्रायां पूजने दाने श्राद्धे गङ्गावगाहने ।
पुत्रादिमङ्गले कार्ये प्रत्यहञ्च त्रिसन्ध्यकम् ॥ ८॥
शृणुयाद्यः भक्तियुक्तो विघ्नास्तस्य विमूर्छिताः ।
प्रत्यहं मङ्गलं तस्य धनपुत्रादिसम्भवम् ।
इष्टदेवमहाभक्तिदायकं वाञ्छितार्थदम् ॥ ९॥
इति श्रीगणेशपञ्चाशन्नामस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगणेशपञ्चाशन्नामस्तोत्रम्
READ
श्रीगणेशपञ्चाशन्नामस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
