अहंकृतं श्रीगणेशस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshastotram Ahamkrritam Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
अहंकृतं श्रीगणेशस्तोत्रम् संस्कृत Lyrics
|| अहंकृतं श्रीगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
अहमुवाच ।
नमस्ते गणनाथाय हेरम्बाय परात्मने ।
सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ १॥
ब्रह्मसु ब्रह्मनाथाय निजेषु स्वस्वरूपिणे ।
साङ्ख्याय ते परत उत्थानस्थेषु नमो नमः ॥ २॥
ज्ञानेषु बोधरूपाय सोऽहन्देहिषु ते नमः ।
देहेषु बिन्दुरूपाय विघ्नेशाय नमो नमः ॥ ३॥
स्रष्टृषु ब्रह्मदेवाय विष्णवे पालकेषु ते ।
संहर्तृषु शिवायैवैकदन्ताय नमो नमः ॥ ४॥
प्रकाशकेषु सूर्याय मोहकेषु च शक्तये ।
देवेषु देवराजाय विनायकाय ते नमः ॥ ५॥
अग्नये ते दाहकेषु यमाय नीतिधारिणाम् ।
रक्षःसु नैरृतायैव शूर्पकर्णाय ते नमः ॥ ६॥
वायवे बलयुक्तेषु निधिषु धनपाय ते ।
रुद्रेषु कालरूपाय नमो लम्बोदराय वै ॥ ७॥
प्रजापतिषु दक्षाय नागेशे शेषरूपिणे ।
अनन्तविभवायैव किं ते स्तौमि नमो नमः ॥ ८॥
यं स्तोतुं न समर्थाश्च वेदाद्या योगिनोऽमलाः ।
तं किं स्तवीमि विघ्नेशमल्पबुद्धिप्रधारकः ॥ ९॥
धन्योऽहं कृतकृत्योऽहं सफलो मे भवः पिता ।
माता कुलं तथा ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ १०॥
एवमुक्त्वा गणेशानं प्रणनाम महासुरः ।
हर्षेण महता युक्तस्तमुवाच गजाननः ॥ ११॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते चैव मयि भावप्रदायकम् ॥ १२॥
पुत्रपौत्रादिकं सौख्यं भुक्तिं मुक्तिं लभेन्नरः ।
अस्य पठनमात्रेण मद्भक्तिं भ्रमनाशिनीम् ॥ १३॥
वरान् वृणु महाभाग मनेप्सितान् ददाम्यहम् ।
तपसा स्तोत्रमुख्येन तुष्टोऽहं ते महादरात् ॥ १४॥
इति अहंकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowअहंकृतं श्रीगणेशस्तोत्रम्
READ
अहंकृतं श्रीगणेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
