धौम्यकृतं श्रीगणेशस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshastotram Dhaumyakrritam Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
धौम्यकृतं श्रीगणेशस्तोत्रम् संस्कृत Lyrics
|| धौम्यकृतं श्रीगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
धौम्य उवाच ।
नमाम्यहं गणेशानं सर्वसिद्धिप्रदायिनम् ।
भक्तानां भवयुक्तानामन्येषां विपरीतगम् ॥ ६॥
धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननम् ।
किं स्तौमि त्वां महाभाग योगेशं योगरूपिणम् ॥ ७॥
तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् ।
स्तोत्रं ते प्रीतिदं पूर्णं शृणु सर्वज्ञसत्तम ॥ ८॥
गणेशाय नमस्तुभ्यं योगशान्तिप्रदायिने ।
शान्तीनां शान्तिरूपाय हेरम्बाय नमो नमः ॥ ९॥
अनामयाय ज्येष्ठाय ज्येष्ठपदप्रदायिने ।
ज्येष्ठानां ज्येष्ठरूपाय विघ्नेशाय नमो नमः ॥ १०॥
नामरूपात्मकेष्वेव शक्तिरूपाय ते नमः ।
आत्मसु रवये तुभ्यं समेषु विष्णवे नमः ॥ ११॥
अव्यक्तेषु महेशाय संयोगेषु निजात्मने ।
निवृत्तिषु ह्ययोगाय कलांशेन नमो नमः ॥ १२॥
योगेषु शान्तिरूपाय ब्रह्मणस्पतये नमः ।
आदिमध्यान्तभेदैस्तु खेलकाय नमो नमः ॥ १३॥
नानामायाप्रचालाय सिद्धिबुद्धिपते नमः ।
स्वानन्दवासिने तुभ्यं भक्तरक्षणतत्पर ॥ १४॥
किं स्तौमि त्वां गणाधीश वेदा योगिन एव च ।
न समर्था अतो नाथ प्रणमामि गजाननम् ॥ १५॥
एवमुक्त्वा गणाधीशं पपाताऽसौ धरातले ।
दण्डवद्गणनाथस्य पादौ गृह्य महामुनिः ॥ १६॥
तमुत्थाप्य स्वयं प्राह गणेशो ब्रह्मणां पतिः ।
वरान् वरय धौम्य त्वं दास्यामि स्तोत्रतोषितः ॥ १७॥
स्तोत्रं त्वया कृतं मे यत् पठते शृण्वते सदा ।
सर्वसिद्धिप्रदं चास्तु नानाभावार्थदायकम् ॥ १८॥
योगशान्तिप्रदं पूर्णं मयि भक्तिविवर्धनम् ।
यं यमिच्छति तं तं वै दास्यामि स्तोत्रतोषितः ॥ १९॥
इति धौम्यकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowधौम्यकृतं श्रीगणेशस्तोत्रम्
READ
धौम्यकृतं श्रीगणेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
