जाजलिर्कृतं श्रीगणेशस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshastotram Jajalirkrritam Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
जाजलिर्कृतं श्रीगणेशस्तोत्रम् संस्कृत Lyrics
|| जाजलिर्कृतं श्रीगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
जाजलिरुवाच ।
नमस्ते ब्रह्मनाथाय बल्लालेशस्वरूपिणे ।
बल्लालवरदात्रे ते गणेशाय नमो नमः ॥ ११०॥
विघ्नेशाय महाविघ्ननाशनाय परात्मने ।
भक्तानां भक्तनाथायाभक्तानां विघ्नकारिणे ॥ १११॥
परात्परतरायैव सगुणाय चतुर्भुज ।
निर्गुणाय तयोर्योगे हेरम्बाय नमो नमः ॥ ११२॥
वक्रतुण्डाय देवायैकदन्ताय महोदर ।
लम्बोदराय सर्वेषां मात्रे पित्रे नमो नमः ॥ ११३॥
स्वानन्दवासिने तुभ्यं सदा स्वानन्दभोगिने ।
नानामायाप्रचालाय मायिकाय नमो नमः ॥ ११४॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय ते ।
अमेयशक्तये चैव शक्तिहीनाय ते नमः ॥ ११५॥
देवाय दानवायैव देवदानवमर्दिने ।
सर्वाकाराय सर्वेभ्यो हीनाय ते नमो नमः ॥ ११६॥
योगानां योगनाथाय शान्तीनां शान्तिरूपिणे ।
ब्रह्मणां पतये तुभ्यं चिन्तामणे नमो नमः ॥ ११७॥
किं स्तौमि त्वां गणाध्यक्ष यत्र वेदा विसिस्मिरे ।
धन्योऽहं सर्वभावैः पश्यामि त्वां योगरूपिणम् ॥ ११८॥
एवमुक्त्वा गणेशानं ननाम भक्तिभावतः ।
तमुत्थाप्य गणेशानो जगाद भक्तवत्सलः ॥ ११९॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतां शृण्वतां विप्र मयि भक्तिविवर्धनम् ॥ १२०॥
वरान् ब्रूहि महाभाग दास्यामि मनसीप्सितान् ।
तपसा भक्तिभावेन तुष्टो व्रतेन निश्चितम् ॥ १२१॥
इति जाजलिर्कृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowजाजलिर्कृतं श्रीगणेशस्तोत्रम्
READ
जाजलिर्कृतं श्रीगणेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
