पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshastotram Pashaya Bandhamokshakaram Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम् संस्कृत Lyrics
|| पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
अहमुवाच ।
पाशाय शस्त्रराजाय नमस्ते बन्धरूपिणे ।
मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥ १॥
मोहो मायामयः प्रोक्तो बन्धदः सर्वजन्तवे ।
गणेशज्ञानयुक्तश्चेद् बन्धहीनो नरो भवेत् ॥ २॥
तदेव बन्धरूपाख्यं शस्त्रं तस्य महात्मनः ।
त्वमेव पाशरूपं वै बन्धमोक्षकरं महत् ॥ ३॥
ये त्वां शरणमापन्नास्तेषां ते बन्धजं भयम् ।
नास्ति शस्त्र च मां पाहि शरणागतमादरात् ॥ ४॥
नमस्ते तेजसां नाथ दुष्टनाशकराय ते ।
पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः ॥ ५॥
एवं स्तुत्वा महापाशं प्रणनाम कृताञ्जलिः ।
अहङ्कारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं ययौ ॥ ६॥
(फलश्रुतिः)
इदं स्तोत्रं पठेद्यस्तु तस्य बन्धो विनश्यति ।
मायापाशमयः साक्षाद्गणेशे स लभेद्गतिम् ॥ ७॥
गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः ।
धूम्रवर्णं जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ ८॥
इति पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowपाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम्
READ
पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
