सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshastotram Sadevarshirdakshakrritam Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम् संस्कृत Lyrics
|| सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
सदेवर्षिर्दक्ष उवाच ।
नमस्ते गणेशाय सर्वात्मने ते सदा भक्तिमोहेन मोहात्मकाय ।
महेशादिदेवैः शुकाद्यैः स्तुताय ह्ययोगाय संयोगधारिन्नमस्ते ॥ २६॥
गजाननाय वै तुभ्यं नमः परशुपाणये ।
गदाधराय शङ्खं वै धारिणे ते नमो नमः ॥ २७॥
विघ्नेशाय परेशाय महाविघ्नविदारिणे ।
अनाथाय सनाथाय हेरम्बाय नमो नमः ॥ २८॥
नमो नमस्तेऽस्तु महोदराय स्वभक्तसंरक्षणतत्पराय ।
अभक्तकामान् विनिहन्तृकाय सदा सुशान्तिप्रद ते नमो वै ॥ २९॥
ब्रह्मेशाय नमस्तुभ्यं सदा स्वानन्दवासिने ।
सिद्धिबुद्धिवरायैव मूषकध्वजिने नमः ॥ ३०॥
दैत्यमस्तकधाराय दितिपुत्राय ते नमः ।
कण्ठाधो देवकायाय नमो सुरसुराय ते ॥ ३१॥
योगाय सर्वात्मकसर्वपूज्य मायाविनां मोहकराय तुभ्यम् ।
मायाप्रचालाय सुसिद्धिदाय धर्मस्थपालाय तु शूलपाणे ॥ ३२॥
अनन्तलीलया नाथ स्वयं खेलसि मायया ।
तत्र किं वर्णयाम्येवाऽतो ब्रवीमि नमो नमः ॥ ३३॥
सदा योगस्वरूपाय भक्तिभावप्रदाय ते ।
भक्तिप्रियाय पूर्णाय भक्तवत्सल ते नमः ॥ ३४॥
प्रसीद पाहि विघ्नेश दासं ते भक्तिलालसम् ।
मां मुद्गलस्य शिष्यं वै भक्तराजस्य मानद ॥ ३५॥
एवमुक्त्वा गणेशानं प्रणनाम प्रजापतिः ।
अनु तं देवविप्राद्याः प्रणेमुस्तं परात्परम् ॥ ३६॥
तमुत्थाप्य गणाधीशो जगाद वच उत्तमम् ।
दक्षं मुद्गलमालोक्य स्वभक्तं भक्तपालकः ॥ ३७॥
(फलशृतिः ।)
श्रीगणेश उवाच ।
वरान् वृणु प्रजानाथ दास्ये ते तुष्टिमागतः ।
श्रवणेन पुराणस्य स्तोत्रेण मनसीप्सितान् ॥ ३८॥
त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ॥ ३९॥
ब्रह्मप्रदं सुशान्तेश्च दायकं भक्तिवर्धनम् ।
भविष्यति महाप्राज्ञ परं मत्प्रीतिवर्धनम् ॥ ४०॥
गणेशवचनं श्रुत्वा दक्षो हर्षसमन्वितः ।
प्रणम्य तं जगादाऽथ भक्तिनम्रात्मकन्धरः ॥ ४१॥
इति सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्
READ
सदेवर्षिर्दक्षकृतं श्रीगणेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
