श्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshastotram Shrisamasasamvatsarakrritam Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम् संस्कृत Lyrics
|| श्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
समाससंवत्सर उवाच ।
नमस्ते धूम्रवर्णाय वक्रतुण्डाय ढुण्ढये ।
हेरम्बाय परेशाय विघ्नेशाय नमो नमः ॥ ९॥
शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने ।
लम्बोदराय सर्वादिपूज्याय तु नमो नमः ॥ १०॥
अनाथानां सुनाथाय पात्रे हर्त्रे नमो नमः ।
कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः ॥ ११॥
आदिमध्यान्तसंस्थायादिमध्यान्तविवर्जित ।
गणेशाय गणानां ते चालकाय नमो नमः ॥ १२॥
ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने ।
ब्रह्मणे ब्रह्मभूताय ब्रह्मिष्ठाय नमो नमः ॥ १३॥
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिपते तुभ्यं सर्वेशाय नमो नमः ॥ १४॥
अनन्तविभवायैवानन्तमायाप्रचारिणे ।
मायिने मायिनां मोहदात्रे मायास्वरूपिणे ॥ १५॥
शान्तियोगमयायैव शान्तियोगधराय ते ।
शान्तियोगप्रदात्रे च योगेशाय नमो नमः ॥ १६॥
किं स्तौमि त्वां गणाधीश चिन्तामणिस्वरूपिणे ।
योगिनः शान्तिमापन्ना वेदा यत्र विशेषतः ॥ १७॥
अतो नमाम्यहं नाथ तेन तुष्टो भव प्रभो ।
वरान् देहि स्वकार्याणां सिद्धिदान् सुखदायकान् ॥ १८॥
भक्तिं ते चरणे नित्यं देहि सर्वभयापहाम् ।
कालमानकरं ढुण्ढे वीर्यं देहि स्वभावजम् ॥ १९॥
कर्म मासादिषु प्राज्ञैः कृतं तच्छुभदं भवेत् ।
साक्षित्वं कर्मणां देहि साधुपादप्रपूजनम् ॥ २०॥
एवमुक्त्वा प्रणेमुस्तं मासाः संवत्सरान्विताः ।
तानुवाच गणाध्यक्षो वचः स्तोत्रेण तोषितः ॥ २१॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
यद्यत् सम्प्रार्थितं मासाः संवत्सर तथास्तु वै ।
सर्वगाः कालरूपस्था भविष्यथ न संशयः ॥ २२॥
सूर्येण संयुताः सर्वे द्वादशदेहधारिणा ।
फलदाः कर्मणां चैव भविष्यथ विशेषतः ॥ २३॥
ब्रह्मार्पणतया कर्म यद्भवत्सु कृतं नरैः ।
अन्ते सलोकतां तेभ्यो दातारश्च भविष्यथ ॥ २४॥
याथातथ्यविभागेन साक्षिणः सर्वजन्मिनाम् ।
भविष्यथ तथा भक्ता मयि मोहविवर्जिताः ॥ २५॥
आदित्येन परित्यक्तोऽधिमासस्त्वं भविष्यसि ।
देवताऽहं त्वदीये तु कर्मणां फलदायकः ॥ २६॥
सर्वेषु मलरूपं यत् कृतं मासेषु मानवैः ।
नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ २७॥
त्वदीये कालभावे तु कर्म यन् मानवैः कृतम् ।
नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥ २८॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
पठतां शृण्वतां नॄणां भावपूरं न संशयः ॥ २९॥
कालदोषभवं पापं कालस्योल्लङ्घनादिकम् ।
हराम्यनेन स्तोत्रेण तुष्टोऽहं भुक्तिमुक्तिदः ॥ ३०॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो गणवल्लभः ।
संवत्सरः प्रसन्नात्मा स्वकार्यनिरतोऽभवत् ॥ ३१॥
मासाः स्वकार्यसामर्थ्ययुक्ता हृष्टा बभूविरे ।
कालभावधराः सर्वे साक्षिणः सर्वकर्मणाम् ॥ ३२॥
एतत् संवत्सरस्यैव समासस्य चरित्रकम् ।
यः पठेच्छृणुयाद्वाऽपि स कालसुखमाप्नुयात् ॥ ३३॥
इति श्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम्
READ
श्रीसमाससंवत्सरकृतं श्रीगणेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
