श्रीविष्णुकृतं गणेशस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshastotram Vishnukritam Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीविष्णुकृतं गणेशस्तोत्रम् संस्कृत Lyrics
|| श्रीविष्णुकृतं गणेशस्तोत्रम् ||
नारायण उवाच ।
अथ विष्णुः सभामध्ये तं सम्पूज्य गणेश्वरम् ।
तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ॥
ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।
नैव वर्णयितुं शक्तोऽस्म्यनुरूपमनीहकम् ॥ १॥
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।
सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम् ॥ २॥
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ।
वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३॥ var वायुतुल्याति
संसारार्णवपारे च मायापोते सुदुर्लभे ।
कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ॥ ४॥
वरं वरेण्यं वरदं वरदानामपीश्वरम् ।
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम् ॥ ५॥
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ ६॥
बीजं संसारवृक्षाणामङकुरं च तदाश्रयम् ।
स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम् ॥ ७॥
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।
स्वेच्छया सगुणं ब्रह्म निर्गुणं स्वेच्छया पुनः ॥ ८॥
स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् ।
त्वां स्तोतुमक्षमोऽनन्तः सहस्रवदनैरपि ॥ ९॥ var वदनेन च
न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः ।
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ।
न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ॥ १०॥
इत्येवं स्तवनं कृत्वा मुनीशसुरसंसदि । var सुरेशं सुरसंसदि
सुरेशश्च सुरैः सार्द्धं विरराम रमापतिः ॥ ११॥
इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।
सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः ॥ १२॥
तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने ।
वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ १३॥
यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम् ।
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ १४॥
तेन दृष्टं च दुःस्वप्नं सुस्वप्नमुपजायते ।
कदाऽपि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ १५॥
भवेद्विनाशः शत्रूणां बन्धूनां चापिवर्धनम् । var च विवर्धनम्
शश्वदिघ्नविनाशश्च शश्वत्सम्यग्विवर्धनम् ॥ १६॥
स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्धनम् ।
सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ १७॥
फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम् ।
महतां सर्वदानानां श्रीगणेशप्रसादतः ॥ १८॥
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे
श्रीविष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीविष्णुकृतं गणेशस्तोत्रम्
READ
श्रीविष्णुकृतं गणेशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
