औरवशौनककृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Auravashaunakakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
औरवशौनककृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| औरवशौनककृता श्रीगणेशस्तुतिः ||
तावूचतुः ।
विश्वस्य बीजं परमस्य पाता नानाविधानन्दकरः स्वकानाम् ।
निजार्चनेनादृतचेतसां त्वं विघ्नप्रहर्ता गुरुकार्यकर्ता ॥ ४॥
परात्परस्त्वं परमार्थभूतो वेदान्तवेद्यो हृदयेतिगुप्तः ।
सर्वश्रुतीनां चन गोचरोऽसि नमाव इत्थं निजदैवतं त्वाम् ॥ ५॥
न पद्मयोनिर्न हरो हरिश्च हरिः षडास्यो न सहस्रमूर्द्धा ।
मायाविनस्ते न विदुः स्वरूपं कथं नु शक्यं परिनिश्चितुं तत् ॥ ६॥
तवानुकम्पा महती यदा स्याद् विभुञ्जतः कर्म शुभाशुभं स्वम् ।
कायेन वाचा मनसा नमेत् त्वां जीवँश्च मुक्तो नर उच्यते सः ॥ ७॥
त्वं भावतुष्टो विदधासि कामान् नानाविधाकारतयाऽखिलानाम् ।
संसृत्यकूपारविमुक्तिहेतुरतो विभुं त्वां शरणं प्रपद्ये ॥ ८॥
फलश्रुतिः –
गणेश उवाच ।
तुष्टोऽहं परया भक्त्या तपसा परमेण च ।
अनया परया स्तुत्या ब्राह्मणौ ! वृणुतं वरान् ॥ ९॥
कुजन्मनाशकमिदं मम स्तोत्रं पठेत् तु यः ।
त्रिसन्ध्यं च त्रिवारं चसर्वान् कामानवाप्नुयात् ॥ १०॥
षण्मासाज्जायते विद्या लक्ष्मीर्नित्यजपादपि ।
पञ्चवारजपान्मर्त्य आयुरारोग्यमाप्नुयात् ॥ ११॥
इति औरवशौनककृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowऔरवशौनककृता श्रीगणेशस्तुतिः
READ
औरवशौनककृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
