ब्रह्मकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Brahmakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
ब्रह्मकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| ब्रह्मकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
ब्रह्मोवाच ।
नमस्ते गणनाथाय प्रलयाम्बुविहारिणे ।
वटपत्रशयायैव हेरम्बाय नमो नमः ॥ ३२॥
चतुर्भुजधरायैव नाभिशेषाय ते नमः ।
गजवक्त्राय सर्वेश लम्बोदर नमोस्तु ते ॥ ३३॥
एकदन्ताय वै तुभ्यं नानाशोभासमन्वित ।
अङ्गुष्ठपर्वमात्रं च स्वरूपं दधते नमः ॥ ३४॥
सिद्धिबुद्धियुतायैव भक्तसंरक्षकाय च ।
अनन्तविभवायैव गणेशाय नमो नमः ॥ ३५॥
निर्गुणाय गुणाधार सगुणाय नमो नमः ।
एकानेकादिभेदैश्च लीलाकार नमोऽस्तु ते ॥ ३६॥
अनादिबालरूपाय सृष्टिस्थित्यन्तकारिणे ।
मायाविने महामोहदात्रे तुभ्यं नमो नमः ॥ ३७॥
निवारय महाविघ्नं सृष्टिकर्तुर्गजानन ।
जलं प्राप्तं महाघोरं तत्राऽहं मज्जितो बलात् ॥ ३८॥
शरणं त्वां प्रपन्नोऽस्मि रक्ष मां भक्तवत्सल ।
तव देवेश दासोऽहं कृपां कुरु दयानिधे ॥ ३९॥
ब्रह्मा स्तुत्वा पुनश्चित्रं तस्य तुण्डे ददर्श ह ।
विश्वं चराचरं पूर्णं संस्थितं सेश्वरं किल ॥ ४०॥
ततो नानासमीरेण नीतो ब्रह्मा महोदरे ।
तत्र विश्वं ददर्शाऽसौ नानाश्चर्यमयं पुनः ॥ ४१॥
एवं नानाण्डसंयुक्तमुदरं वीक्ष्य च प्रभोः ।
रोमद्वारेण ब्रह्माऽसौ बहिर्यातो यथा पुरा ॥ ४२॥
ददर्श तं गणेशानं बालरूपं सुविस्मितः ।
तमुवाच ततो देवो ब्रह्माणं भक्तमुत्तमम् ॥ ४३॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् ।
सर्वार्थसाधकं चैव भुक्तिमुक्तिफलप्रदम् ॥ ४४॥
यः पठेच्छृणुयाद्वाऽपि स मे मान्यो भविष्यति ।
यं यं चिन्तयते भावं तं तं दास्यामि निश्चितम् ॥ ४५॥
इति ब्रह्मकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowब्रह्मकृता श्रीगणेशस्तुतिः
READ
ब्रह्मकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
