कीर्तिर्कृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Kirtikrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
कीर्तिर्कृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| कीर्तिर्कृता श्रीगणेशस्तुतिः ||
कीर्तिरुवाच ।
त्वमेव जगदाधारस्त्वमेव सर्वकारणम् ॥ ३६॥
त्वमेव ब्रह्मा विष्णुश्च बृहद्भानुस्त्वमेव हि ।
चन्द्रो यमो वैश्रवणो वरुणो वायुरेव च ॥ ३७॥
त्वमेव सागरा नद्यो लताकुसुमसंहतिः ।
सुखं दुखं तयोर्हेतुस्त्वं नाशस्त्वं विमोचकः ॥ ३८॥
इष्टविघ्नकरो नित्यं महाविघ्नकरो विराट् ।
त्वमेव पुत्रलक्ष्मीदस्त्वमेव सर्वकामधुक् ॥ ३९॥
त्वमेव विश्वयोनिश्च त्वमेव विश्वहारकः ।
त्वमेव प्रकृतिस्त्वं वै पुरुषो निर्गुणो महान् ॥ ४०॥
त्वमेव शशिरूपेण सर्वमाप्यायसे जगत् ।
त्वमेव भूतभव्यं चभाविभावात्मकः स्वराट् ॥ ४१॥
शरण्यः सर्वभूतानां शत्रूणां तापनः परः ।
कर्मकाण्डपरो यज्वा ज्ञानकाण्डपरः शुचिः ॥ ४२॥
सर्ववेत्ता सर्वविधिः सर्वसाक्षी च सर्वगः ।
सर्वव्यापी सर्वविष्णुः सर्वसत्यमयः प्रभुः ॥ ४३॥
सर्वमायामयः सर्वमन्त्रतन्त्रविधानवित् ॥ ४४॥
इति कीर्तिर्कृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowकीर्तिर्कृता श्रीगणेशस्तुतिः
READ
कीर्तिर्कृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
