नन्दिकेशकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Nandikeshakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
नन्दिकेशकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| नन्दिकेशकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
नन्दिकेश उवाच ।
नमस्ते गणेशाय शान्तिप्रदाय सदा शान्तिरूपाय शान्तेर्धराय ।
नराणां हृदिस्थाय नागाकृतीनां हृदिस्थाय योगाय योगेश्वराय ॥ ३९॥
हेरम्बाय नमस्तुभ्यं सिद्धिबुद्धिविहारिणे ।
स्वानन्दपाय चौरेश वाहनाय नमो नमः ॥ ४०॥
पार्वतीपतये तुभ्यं शिवचित्तगताय वै ।
लक्ष्मीपते नमस्तुभ्यं विष्णुचित्तस्थमूर्तये ॥ ४१॥
संज्ञापते नमस्तुभ्यं भानोर्हृदि स्थिताय च ।
आदिशक्तिपते तुभ्यं शक्तिचित्तगमूर्तये ॥ ४२॥
सावित्रीपतये तुभ्यं ब्रह्मणो हृदि खेलक ।
गायत्रीपतये तुभ्यमोङ्कारचित्तवासिने ॥ ४३॥
शचीपते नमस्तुभ्यमिन्द्रचित्तगमूर्तये ।
स्वाहापते परेशायाग्निहृदिस्थाय ते नमः ॥ ४४॥
नररूपाय वै तुभ्यं भिन्नसौख्यप्रचारिणे ।
सर्वत्र भिन्नभावेषु नराय ते नमो नमः ॥ ४५॥
निर्गुणाय नमस्तुभ्यं कुञ्जराकारमूर्तये ।
सर्वत्राभेदसौख्येषु निर्गुणेषु स्थिताय च ॥ ४६॥
नरकुञ्जररूपाय योगाकाराय ते नमः ।
योगानां पतये तुभ्यं पूर्णयोगस्वरूपिणे ॥ ४७॥
धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः ।
किं स्तौमि ब्रह्म ब्रह्मेश नमस्ते वरदो भव ॥ ४८॥
एवं स्तुत्वा गणेशानं ननर्त प्रेमसंयुतः ।
नन्दीशस्तं जगादासौ गणेशो भक्तवत्सलः ॥ ४९॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
वरान् वृणु महाभाग नन्दिंस्ते मनसीप्सितान् ।
दास्यामि तपसा तुष्टः स्तुतः स्तोत्रेण मानद ॥ ५०॥
त्वया कृतमिदं स्तोत्रं योगदं तु भविष्यति ।
भुक्तिदं कामिकायैव मुक्तिदं मोक्षमिच्छते ॥ ५१॥
सर्वसिद्धिकरं भावि पठतां शृण्वतां सदा ।
यं यमिच्छन्ति तं तं ते लभन्तेऽनेन निश्चितम् ॥ ५२॥
इति नन्दिकेशकृता श्रीगणेशस्तुतिः श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनन्दिकेशकृता श्रीगणेशस्तुतिः
READ
नन्दिकेशकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
