नारदमुनिकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Naradamunikrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
नारदमुनिकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| नारदमुनिकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
नमो नमो गणेशाय गणपालकमूर्तये ।
गणरूपेण सर्वत्र संस्थिताय नमो नमः ॥ ४८॥
मूषकारूढकायैवानादिरूपाय ते नमः ।
आकारादिविहीनायाकारिरूपाय ते नमः ॥ ४९॥
हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
भक्तवत्सलभावाय विघ्नेशाय नमो नमः ॥ ५०॥
नमस्तुभ्यं सिद्धिपते सिद्धिदात्रे च ढुण्ढये ।
बुद्धिदात्रे धियः पात्रे सर्वान्तश्चारिणे नमः ॥ ५१॥
स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः ।
योगरूपाय शान्ताय योगानां पतये नमः ॥ ५२॥
आदिमध्यान्तहीनाय कर्त्रे हर्त्रे नमो नमः ।
पालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥ ५३॥
वक्रतुण्डाय देवाय लम्बोदरधराय च ।
सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥ ५४॥
यं स्तोतुं न समर्थाश्च वेदाः साङ्गाः कदाचन ।
वयं तत्र च के देव वेदैर्ज्ञानधरा यतः ॥ ५५॥
एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः ।
धृत्वा मनसि तद्रूपं भक्तिभावेन यन्त्रिताः ॥ ५६॥
पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः ।
कृतांऽजलिपुटा देवं गणेशं सर्वनायकम् ॥ ५७॥
यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् ।
पदभ्रष्टा वयं तेन कृताः कर्मविवर्जिताः ॥ ५८॥
भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् ।
एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥ ५९॥
देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः ।
उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥ ६०॥
गजासुरवधं देवा मुनयश्च सुदुष्करम् ।
तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥ ६१॥
मदीया भक्तिरचला भविष्यति सुदुर्लभा ।
पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥ ६२॥
भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ ६३॥
पठतां शृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् ।
दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥ ६४॥
इत्युक्त्वान्तर्दधे देवो गणेशः सर्वसिद्धिदः ।
वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥ ६५॥
इति नारदमुनिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनारदमुनिकृता श्रीगणेशस्तुतिः
READ
नारदमुनिकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
