गणेशस्तुतिः पञ्चदेवैः कृता PDF संस्कृत
Download PDF of Ganeshastutih Panchadevaih Krrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
गणेशस्तुतिः पञ्चदेवैः कृता संस्कृत Lyrics
|| गणेशस्तुतिः पञ्चदेवैः कृता ||
श्रीगणेशाय नमः ।
पञ्चदेवा ऊचुः ॥
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
विघ्नकर्त्रे ह्यभक्तानां गणेशाय नमो नमः ॥ २६॥
हेरंबाय नमस्तुभ्यं ढुण्ढिराजाय ते नमः ।
विनायकाय देवाय ब्रह्मणां नायकाय च ॥ २७॥
लम्बोदराय सिद्धेश गजाननधराय च ।
शूर्पकर्णाय गूढाय चतुर्हस्त नमोऽस्तु ते ॥ २८॥
लम्बोष्ठायैकदन्ताय सर्वेशाय गणाधिप ।
अनन्तमहिमाधार धरणीधर ते नमः ॥ २९॥
नमो मायामयायैव मायाहीनाय ते नमः ।
मोहदाय नमस्तुभ्यं मोहहन्त्रे नमो नमः ॥ ३०॥
पञ्चभूतमयायैव पञ्चभूतधराय च ।
इन्द्रियाणां चाधिपायेन्द्रियज्ञानप्रकारिणे ॥ ३१॥
अध्यात्मनेऽधिभूतायाधिदैवाय च ते नमः ।
अन्नायान्नपते तुभ्यमन्नान्नाय नमो नमः ॥ ३२॥
प्राणाय प्राणनाथाय प्राणानां प्राणरूपिणे ।
चित्ताय चित्तहीनाय चित्तेभ्यश्चित्तदायिने ॥ ३३॥
विज्ञानाय च विज्ञानपतये द्वन्द्वधारिणे ।
विज्ञानेभ्यः स्वविज्ञानदायिने ते नमो नमः ॥ ३४॥
आनन्दाय नमस्तुभ्यमानन्दपतये नमः ।
आनन्दानन्ददात्रे च कारणाय नमो नमः ॥ ३५॥
चैतन्याय च यत्नाय चेतनाधारिणे नमः ।
चैतन्येभ्यः स्वचैतन्यदायिने नादरूपिणे ॥ ३६॥
बिन्दुमात्राय बिन्दूनां पतये प्राकृताय च ।
भेदाभेदमयायैव ज्योतीरूपाय ते नमः ॥ ३७॥
सोऽहंमात्राय शून्याय शुन्याधाराय देहिने ।
शून्यानां शून्यरूपाय पुरुषाय नमो नमः ॥ ३८॥
ज्ञानाय बोधनाथाय बोधानां बोधकारिणे ।
मनोवाणीविहीनाय सर्वात्मक नमो नमः ॥ ३९॥
विदेहाय नमस्तुभ्यं विदेहाधारकाय च ।
विदेहानां विदेहाय साङ्ख्यरूपाय ते नमः ॥ ४०॥
नानाभेदधरायैव चैकानेकादिमूर्तये ।
असत्स्वानन्दरूपाय शक्तिरूपाय ते नमः ॥ ४१॥
अमृताय सदाखण्डभेदाभेदविवर्जित ।
सदात्मरूपिणे सूर्यरूपाधाराय ते नमः ॥ ४२॥
सत्यासत्यविहीनाय समस्वानन्दमूर्तये ।
आनन्दानन्दकन्दाय विष्णवे ते नमो नमः ॥ ४३॥
अव्यक्ताय परेशाय नेतिनेतिमयाय च ।
शिवाय शाश्वतायैव मोहहीनाय ते नमः ॥ ४४॥
संयोगेन च सर्वत्र समाधौ रूपधारिणे ।
स्वानन्दाय नमस्तुभ्यं मौनभावप्रदायिने ॥ ४५॥
अयोगाय नमस्तुभ्यं निरालम्बस्वरूपिणे ।
मायाहीनाय देवाय नमस्ते ह्यसमाधये ॥ ४६॥
शान्तिदाय नमस्तुभ्यं पूर्णशान्तिप्रदाय ते ।
योगानां पतये चैव योगरूपाय ते नमः ॥ ४७॥
गणेशाय परेशाय ह्यपारगुणकीर्तये ।
योगशान्तिप्रदात्रे च महायोगाय ते नमः ॥ ४८॥
गुणान्तं न ययुर्यस्य वेदाद्या वेदकारकाः ।
स कस्य स्तवनीयः स्याद्यथामति तथा स्तुतः ॥ ४९॥
तेन वै भगवान् साक्षाच्चिन्तामणिगजाननः ।
प्रसन्नो भवतु त्राताऽस्माकं त्वं परमा गतिः ॥ ५०॥
इत्येवमुक्त्वा देवेशास्तूष्णीं भूतास्तथा शिवे ।
गणेशोऽपि प्रसन्नात्मा हृष्टः सन् प्रत्युवाच तान् ॥ ५१॥
श्रीगणेश उवाच ।
पञ्चदेवा महाभागाः प्रसन्नो भवतां स्तवैः ।
तपसा च तथा भक्त्या वाञ्छितं ब्रूत वै वरम् ॥ ५२॥
भवत्कृतमिदं स्तोत्रं परमाह्लादवर्धनम् ।
मम प्रीतिकरं भक्त्या सर्वदं प्रभविष्यति ॥ ५३॥
यः पठेद्भावपूर्वं स धर्मकामार्थमोक्षभाक् ।
पुत्रपौत्रयुतः श्रीमानन्ते स्वानन्दमाप्नुयात् ॥ ५४॥
सप्तवारं पठेन्नित्यमेकविंशतिवासरम् ।
कारागृहगतो वाऽपि मुच्यते बन्धनात् स्वयम् ॥ ५५॥
एककालं द्विकालं वा त्रिकालमपि यः पठेत् ।
स वै देवादिकैर्वन्द्यो भविष्यति न संशयः ॥ ५६॥
मारणोच्चाटनादिभ्य एकविंशतिवारतः ।
तावद्दिनानि पाठेन तस्य नैव भयं भवेत् ॥ ५७॥
धनधान्यादिकं सर्वमारोग्यं पशुवर्धनम् ।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ५८॥
इति पञ्चदेवैः कृता गणेशस्तुतिः । १.११
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगणेशस्तुतिः पञ्चदेवैः कृता
READ
गणेशस्तुतिः पञ्चदेवैः कृता
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
