पराशरकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Parasharakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
पराशरकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| पराशरकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
पराशर उवाच ।
नमस्ते गजवक्त्राय नराकाराय ते नमः ।
नरकुञ्जररूपाय गणेशाय नमो नमः ॥ २६॥
निर्गुणाय गुणाधाररूपिणे परमात्मने ।
परात्पराय देवायानादिसिद्धाय ते नमः ॥ २७॥
अनन्ताननधारायानन्तपाण्यङ्घ्रिरूपिणे ।
अनन्तविभवायैव गकाराय च ते नमः ॥ २८॥
सर्वहीनाय देवाय मायाभ्यां वर्जिताय ते ।
सदा ब्रह्ममयायैव णकाराय नमो नमः ॥ २९॥
तयोश्च स्वामिने तुभ्यं गणेशाय नमो नमः ।
स्वानन्दवासिने पूर्णभुक्तिमुक्तिप्रदाय ते ॥ ३०॥
किं स्तौमि देवदेवेश वेदवेदान्तकादिभिः ।
सम्पादितं परं ब्रह्म त्वामतः प्रणमाम्यहम् ॥ ३१॥
यदि तुष्टोऽसि देवेश तदा पुत्रो भव प्रभो ।
आवयोर्गणनाथ त्वं तदा मे स्यात् स्थिरं मनः ॥ ३२॥
अस्माकं कुलदेवश्च त्वमेव गणनायक ।
ब्रह्मभावेन नित्यं त्वां भजामस्तत्र विघ्नप ॥ ३३॥
पुत्रभावेन देवेश भजेयं संसृतौ गतः ।
संसारः सफलस्तेन ब्रह्मरूपो भवेच्च मे ॥ ३४॥
श्रुत्वैवं वचनं तस्य पराशरमुनेरिदम् ।
तमुवाच गणाधीशो भक्तं योगधरं परम् ॥ ३५॥
(फलश्रुतिः)
गणेश उवाच ।
त्वया यत्प्रार्थितं विप्र तत्सर्वं सफलं भवेत् ।
तव पुत्रो भविष्यामि गजासुरवधाय च ॥ ३६॥
त्वया स्तोत्रं कृतं यच्च तत्सर्वेच्छितदं भवेत् ।
भुक्तिमुक्तिकरं तेषां पठतां शृण्वतां नृणाम् ॥ ३७॥
इति पराशरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowपराशरकृता श्रीगणेशस्तुतिः
READ
पराशरकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
