रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Renukajamadagnikrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
रेणुकाजमदग्नी उचतुः ।
नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे ।
विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूताय ते नमः ॥ ६॥
अनादये त्वनाधार वक्रतुण्डस्वरूपिणे ।
गणेशान अनन्तानां गणानां पतये नमः ॥ ७॥
नानाशक्तियुतायैव नानाभेदकराय ते ।
नानाभेदविहीनाय हेरम्बाय नमो नमः ॥ ८॥
अमेयमायया चैव खेलकाय च ढुण्ढये ।
सिद्धिबुद्धिसहायाय सिद्धिबुद्धिवराय च ॥ ९॥
स्वानन्दपतये तुभ्यं भक्तेभ्यो योगदायिने ।
योगाकाराय योगाय शान्तिदाय नमो नमः ॥ १०॥
अखण्डानन्दरूपाय भुक्तिमुक्तिप्रदाय च ।
लम्बोदराय देवाय चैकदन्ताय ते नमः ॥ ११॥
महोदराय विघ्नानां पतये सुखदायिने ।
मूषकध्वजिने तुभ्यं नमो मूषकवाहन ॥ १२॥
चतुर्भुजाय सर्वेषामादिपूज्याय भोगिने ।
ज्येष्ठराजाय सर्वेषां पितृमातृस्वरूपिणे ॥ १३॥
यं स्तोतुं न समर्थाश्च वेदा देवाः शिवादयः ।
योगिनस्तं कथं चावां ह्यतस्त्वां प्रणमावहे ॥ १४॥
एवं स्तुत्वा गणेशानं प्रणतौ भक्तिसंस्तुतौ ।
तावुत्थाप्य गणाधीश ऊचिवान् हर्षसंयुतः ॥ १५॥
(फलश्रुतिः)
गणेश उवाच ।
वरं च वृणुतं पुत्रौ दास्यामि मनसीप्सितम् ।
यमिच्छथो महाभागौ भक्तिभावनियन्त्रितः ॥ १६॥
इति रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowरेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः
READ
रेणुकाजमदग्नीकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
