सर्वेकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Sarvekrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
सर्वेकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| सर्वेकृता श्रीगणेशस्तुतिः ||
सर्वे ऊचुः ।
यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेयाद् गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ ४४॥
यतश्चाविरासीज्जगत् सर्ववेत्तुस्तथाऽब्जासनो विश्वगो विश्वगोप्ता ।
तथेन्द्रादयो दैत्यसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ ४५॥
यतो वह्निभानू भवो भूर्जलं चयतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जङ्गमा वृक्षसङ्घाः सदा तं गणेशं नमामो भजामः ॥ ४६॥
यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥ ४७॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोयतः सम्पदो भक्तसन्तोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥ ४८॥
यतः पुत्रसम्पद् यतो वाञ्छितार्थो यतो भक्तिविद्यास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥ ४९॥
यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ५०॥
यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति ता यं गृह्णन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥ ५१॥
इति सर्वेकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowसर्वेकृता श्रीगणेशस्तुतिः
READ
सर्वेकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
