ससर्वस्वानन्दकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Sasarvasvanandakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
ससर्वस्वानन्दकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| ससर्वस्वानन्दकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
ससर्वस्वानन्द उवाच ।
अजं पुराणं परमव्ययं तं निवृत्तिमात्रं ह्यसमाधिसंस्थम् ।
अयोगरूपं गणनाथमाद्यं नमामि निर्मायिकमप्रमेयम् ॥ २१॥
न जारजं स्वेदजमण्डजं न न चोद्भिदं स्थावरजङ्गमं न ।
अनादिमध्यान्तममोघरूपं नमामि निर्मायिकमप्रमेयम् ॥ २२॥
न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न खमेव ढुण्ढिम् ।
न राजसं सत्त्वतमोयुतं न नमामि निर्मायिकमप्रमेयम् ॥ २३॥
न जागृतं स्वप्नगतं न देवं सौषुप्तकं नैव तुरीयसंस्थम् ।
न बिन्दुमात्रं न च सोऽहमेव नमामि निर्मायिकमप्रमेयम् ॥ २४॥
न बोधगं नैव विबोधरूपं न मोहयुक्तं न च मोहहीनम् ।
न निर्गुणं नो सगुणं तथा तं नमामि निर्मायिकमप्रमेयम् ॥ २५॥
न कर्मरूपं न च ज्ञानरूपं समं न चाधीनतमं सदा न ।
न स्वात्मगं सर्वविकारहीनं नमामि निर्मायिकमप्रमेयम् ॥ २६॥
असत्स्वरूपं न च सत्स्वरूपं समानरूपं न च नेतिगं तम् ।
निजात्मरूपं विविधेषु नैव नमामि निर्मायिकमप्रमेयम् ॥ २७॥
अनन्तरूपं न तथैकरूपं समं न तुर्यं न च पञ्चमं तम् ।
सदा गणेशाकृतिरूपधारं नमामि निर्मायिकमप्रमेयम् ॥ २८॥
न चागतं नैव गतं गणेशमयोगरूपं प्रवदन्ति वेदाः ।
सदा निवृत्तिमयमासमन्तान्नमामि निर्मायिकमप्रमेयम् ॥ २९॥
वचोभिरारात् कथितुं कदाचिदयोगभावान् मनसो न शक्यम् ।
कदा तमप्राप्य वदामि देवं नमामि निर्मायिकमप्रमेयम् ॥ ३०॥
न सिद्धियुक्तं न च बुद्धियुक्तं न मायिकं ब्रह्ममयं परेशम् ।
अनन्तपारं गजवक्त्रधारं नमामि निर्मायिकमप्रमेयम् ॥ ३१॥
त्रिनेत्रधारं गजवक्त्रयुक्तं चतुर्भुजं चैकरदं महान्तम् ।
महोदरं वाहनहीनगं तं नमामि निर्मायिकमप्रमेयम् ॥ ३२॥
न योगनिष्ठं न विहारयुक्तं निजात्मनाम्नि नगरे न संस्थम् ।
निजे समुद्रे न विहारकारं नमामि निर्मायिकमप्रमेयम् ॥ ३३॥
न भक्तभक्तिप्रियमेव देवं तथापि योगेन निवृत्तिदं तम् ।
अपारमायामयपाशहारं नमामि निर्मायिकमप्रमेयम् ॥ ३४॥
अहं विकारेण विमोहितोऽतो भ्रमन् गणेशाधिपते महात्मन् ।
जगत्सु नानाविधब्रह्मसु प्रभो नमामि निर्मायिकमप्रमेयम् ॥ ३५॥
समाधिरूपोऽहमचिन्त्यभावः सर्वात्मकः सर्वविवर्जितोऽहम् ।
भ्रमामि मां रक्ष निवृत्तिदातर्नमामि निर्मायिकमप्रमेयम् ॥ ३६॥
सुसिद्धिबुद्धिप्रद मोहयुक्तो विभज्य नानाविधमात्मरूपम् ।
चतुः पदार्थेषु चरामि भ्रान्त्या नमामि निर्मायिकमप्रमेयम् ॥ ३७॥
सुखेलयुक्तोऽहमथो सुखेनेतरेण योगेन तदात्मना वै ।
न शान्तिजं सौख्यमणु ह्यविन्दं नमामि निर्मायिकमप्रमेयम् ॥ ३८॥
अनन्तभावेन विमोहितं मां रक्षस्व ते पादप्रियं गणेश ।
निवृत्तिकां देहि परार्थभूतां नमामि निर्मायिकमप्रमेयम् ॥ ३९॥
नमो गणेशाय निवृत्तिधारिणे नमः परेशाय सुखाब्धिवासिने ।
नमश्च हेरम्ब महोदराय ते नमो नमो ब्रह्मपते सुशान्तये ॥ ४०॥
अयोगरूपं गणनायकं तं प्रवेशहीनात् कथमेव ढुण्ढे ।
दयापरं स्तौम्यधुना च तारय नमो नमो विघ्नपते नमस्ते ॥ ४१॥
मुद्गल उवाच ।
एवं स्तुत्वा गणेशानं स्वानन्दः प्रणनाम तम् ।
भक्त्या हर्षेण संयुक्तस्तमुवाच गजाननः ॥ ४२॥
(फलशृतिः ।)
श्रीगणेश उवाच ।
वरं वृणु महाभाग सर्वं दास्यामि चेप्सितम् ।
मायामायिकभेदैस्त्वं दुःखितोऽसि न संशयः ॥ ४३॥
त्वया कृतमिदं स्तोत्रं सर्वशान्तिप्रदं भवेत् ।
न मायासम्भवं दुःखं प्रलभेत् पाठतो नरः ॥ ४४॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।
असाध्यं साधयेन् मर्त्यः श्रवणेन निजप्रदम् ॥ ४५॥
एवं श्रुत्वा गणेशस्य वचनं स्वस्वरूपकम् ।
जगाद तं प्रणम्यादौ कृत्वा करपुटं विधे ॥ ४६॥
ससर्वस्वानन्द उवाच ।
यदि तुष्टोऽसि विघ्नेश तदा देहि निवृत्तिजम् ।
सुखं नान्यं वरं भ्रान्तिं मायामेतां निवारय ॥ ४७॥
तथेति तमुवाचैव गणेशोंऽतर्दधे ततः ।
स्वानन्दः खिन्नभावेन स्वस्थाने संस्थितोऽभवत् ॥ ४८॥
सस्मारायोगनाथं तं ततश्चित्रं बभूव ह ।
विश्वानि ब्रह्ममुख्यानि स्वानन्दे लयमाययुः ॥ ४९॥
ततः स्वयं निजानन्दो नष्टस्तत्र बभूव ह ।
मायाहीनप्रभावेणायोगस्थः शुशुभे मुदा ॥ ५०॥
संयोगमायया हीनो न ददर्श स किञ्चन ।
स्वात्मानं वाऽपरं मुख्यं अयोगं गणनायकम् ॥ ५१॥
सर्वबन्धविनिर्मुक्तं बभूव स्वस्वरूपकम् ।
एतत् सर्वं समाख्यातमयोगस्य चरित्रकम् ॥ ५२॥
अयोगे दक्ष नैवास्ति त्वमहं ब्रह्म शाश्वतम् ।
न गणेशः स्वसंवेद्यं तेन निर्वृत्तिमाप्नुयात् ॥ ५३॥
यः पठेच्छ्रुणुयाद्वा यो ह्ययोगस्य चरित्रकम् ।
स भुक्त्वा सकलान् भोगानन्ते निर्वृत्तिमाप्नुयात् ॥ ५४॥
इति ससर्वस्वानन्दकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
READ
ससर्वस्वानन्दकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
