श्र्योङ्काराकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Shryonkarakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्र्योङ्काराकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| श्र्योङ्काराकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
श्र्योङ्कारावूचतुः ।
नमस्ते गणनाथाय सर्वसिद्धिप्रदायक ।
सिद्धिबुद्धियुतायैव गणानां पतये नमः ॥ ४९॥
स्वानन्दपतये तुभ्यं कर्तॄणां कर्तृरूपिणे ।
अनाथाय सनाथानां नमो नाथाय ते नमः ॥ ५०॥
परेशाय परेषां च पालकाय परात्मने ।
आत्मनाममृतायैव विघ्नेशाय नमो नमः ॥ ५१॥
लम्बोदराय देवाय देवदेवेशरूपिणे ।
देवेभ्यो देवतां दात्रे गजाननाय ते नमः ॥ ५२॥
ज्येष्ठराजाय सर्वेषामादिपूज्याय ढुण्ढये ।
अनामनाय नित्याय सर्वेशाय नमो नमः ॥ ५३॥
ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणे ब्रह्मरूपिणे ।
ब्रह्मणस्पतये तुभ्यं पूर्णयोगाय ते नमः ॥ ५४॥
योगशान्तिमयायैव चिन्तामणिस्वरूपिणे ।
अनन्तायादिरूपाय चान्तःस्थाय नमो नमः ॥ ५५॥
किं स्तुवस्त्वां गणाधीश योगशान्तिधरं परम् ।
यत्र वेदादयः शान्तिं प्राप्ता योगपरायणाः ॥ ५६॥
मनोवाणीमयो नैव मनोवाणीविवर्जितः ।
नैव त्वं ते नमो नाथ प्रसन्नो भव सर्वदा ॥ ५७॥
एवमुक्त्वा गणाधीशं प्रणेमतुर्महासुर ।
श्र्यौङ्कारौ तौ समुत्थाप्य जगाद गणनायकः ॥ ५८॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
वरान् ब्रूतं महाभागे महामाये हृदीप्सितान् ।
दास्यामि तपसा तुष्टः स्तोत्रेणाहं विशेषतः ॥ ५९॥
स्तोत्रं भवत्कृतं मे वै सर्वसिद्धिप्रदायकम् ।
पठते शृण्वते नित्यं प्रभवेद्भुक्तिमुक्तिदम् ॥ ६०॥
ब्रह्मभूयकरं पूर्णं श्र्योङ्कारयशसान्वितम् ।
मम प्रियकरं पूर्णं भक्तिवर्धनकं भवेत् ॥ ६१॥
गणेशवचनं श्रुत्वोचतुःश्र्योङ्कारकौ परम् ।
गणेशभक्तिसंयुक्तो भक्तेशं भक्तवत्सलम् ॥ ६२॥
इति श्र्योङ्काराकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्र्योङ्काराकृता श्रीगणेशस्तुतिः
READ
श्र्योङ्काराकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
