वामदेवकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Vamadevakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
वामदेवकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| वामदेवकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
वामदेव उवाच ।
गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने ।
सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ ५४॥
मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक ।
ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ ५५॥
आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते ।
आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ ५६॥
नानामायाधरायैव मायिभ्यो मोहदायिने ।
मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥ ५७॥
विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते ।
ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥ ५८॥
सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते ।
महोदराय देवेन्द्रपाय ज्येष्ठाय वै नमः ॥ ५९॥
महोग्राय महेशाय विष्णवे प्रभविष्णवे ।
अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥ ६०॥
पुरुषाय प्रकृतये गुणेशाय गुणात्मने ।
एकानेकात्मकायैव विघ्नकर्त्रे नमो नमः ॥ ६१॥
भक्तेभ्यः सर्वदात्रे ते ब्रह्मणां पतये नमः ।
योगाय योगनाथाय योगिनां पतये नमः ॥ ६२॥
स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् ।
मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥ ६३॥
सहसैवं संस्तुवतस्तस्य भक्तिरसेन च ।
रोमोद्गमः प्रादुरासीत् कण्ठरोधो बभूव ह ॥ ६४॥
उवाच वामदेवं स नृत्यन्तं विघ्ननायकः ।
वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥ ६५॥
(फलश्रुतिः)
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् ।
शृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥ ६६॥
भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् ।
धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥ ६७॥
इति वामदेवकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowवामदेवकृता श्रीगणेशस्तुतिः
READ
वामदेवकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
