यमकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutih Yamakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
यमकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| यमकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
यम उवाच ।
नमो गणपते तुभ्यं नानामायाविलासिने ।
मायाधारकवेषेण स्थिताय तु नमो नमः ॥ २२॥
मायामोहविहीनाय साक्षिणे जगदादये ।
ब्रह्मादये ब्रह्मविदे ब्रह्मणे वै नमो नमः ॥ २३॥
अनन्ताय नमस्तुभ्यं हेरम्बाय च ढुण्ढये ।
विघ्नेशाय त्रिनेत्राय लम्बोदर नमोऽस्तु ते ॥ २४॥
गजाननाय देवाय देवानां पतये नमः ।
देवानां गर्वहन्त्रे च रक्षसां मर्दिने नमः ॥ २५॥
भक्तिप्रियाय भक्तेभ्यो नानासौख्यप्रदाय ते ।
अनन्ताननधारायानन्तहस्ताय ते नमः ॥ २६॥
अनन्तशिरसे तुभ्यं ब्रह्मभूताय वेधसे ।
शिवाय शिववन्द्याय शिवदाय नमो नमः ॥ २७॥
अखण्डविभवायैव मूषकध्वजिने नमः ।
मूषकश्रेष्ठवाहस्थायैकदन्ताय ते नमः ॥ २८॥
आदिमध्यान्तरूपाय सर्वाकाराय ते नमः ।
पाशाङ्कुशधरायैव सर्वभोक्त्रे नमो नमः ॥ २९॥
त्वां स्तोतुं कः समर्थः स्याद्योगाकारस्वरूपिणम् ।
अतोऽहं प्रणमामीह तेन तुष्टो भव प्रभो ॥ ३०॥
धन्योऽहं सर्वभावैश्च येन दृष्टो गणेश्वरः ।
अधुना रक्ष मां भक्तं शरणागतवत्सल ॥ ३१॥
एवं स्तुवन्तमत्यन्तमुवाच गणनायकः ।
यमं परमभक्तं च सूर्यपुत्रं यशस्विनम् ॥ ३२॥
(फलश्रुतिः)
गणेश उवाच ।
वरं वृणु महाभाग यम त्वं मनसीप्सितम् ।
दास्यामि ते महाभक्त्या तोषितोऽहं न संशयः ॥ ३३॥
ततस्तं भानुजस्तत्रोवाच देहि गजानन ।
भक्तिं त्वदीयपादे वै सुदृढां मे महोदर ॥ ३४॥
अन्यं वरं च मे देहि मातृशापहरं परम् ।
यद्यदिच्छामि देवेश तत्तत् सिध्यतु विघ्नप ॥ ३५॥
एवं तस्य वचः श्रुत्वा तथेति गणपोऽब्रवीत् ।
मदीया ते महाभक्तिर्भविष्यति न संशयः ॥ ३६॥
मातृशापस्य योगेन किञ्चिद् दुःखमवाप्स्यसि ।
क्लेद्यपादाच्च मांसं ते कीटाः सङ्गृह्य सत्वरम् ॥ ३७॥
पतिष्यन्ति पृथिव्यां ते त्वं सुपादो भविष्यसि ।
यद्यदिच्छसि तत्तत्ते सुलभं प्रभविष्यति ॥ ३८॥
दक्षिणस्यां दिशि प्राज्ञ दिक्पालस्त्वं भविष्यसि ।
धर्मराज इति ख्यातो नाम्ना सर्वत्र पूजितः ॥ ३९॥
स्वधर्मपालकेषु त्वं श्रेष्ठो धर्मकरो मतः ।
जीवानां कर्मयोगेन फलदश्च भविष्यसि ॥ ४०॥
त्वदीयाऽऽज्ञा त्रिलोकेषु वर्ततां धर्मभावतः ।
त्वया स्तोत्रमिदं पुण्यं कृतं तच्च सुसिद्धिदम् ॥ ४१॥
पठते शृण्वते पूर्णं भविष्यति न संशयः ।
यमस्य यातनां घोरां स्तोत्रेण प्रस्तुतो यम ॥ ४२॥
हरामि नात्र सन्देहोंऽते स्वानन्दं ददाम्यहम् ।
त्वया यत्र कृतं स्नानं नित्यं मद्भक्तिभाविना ॥ ४३॥
गणेशतीर्थसंज्ञं तद्भविष्यति न संशयः ।
अत्रैव स्नानमात्रेण सर्वपापक्षयो भवेत् ॥ ४४॥
सुबुद्धिप्रदमेतच्च तत्क्षणात् प्रभविष्यति ।
एवमुक्त्वान्तर्दधेऽसौ यमस्तत्र स्थितोऽभवत् ॥ ४५॥
इति यमकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowयमकृता श्रीगणेशस्तुतिः
READ
यमकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
