दक्षकृता गणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihdakshakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
दक्षकृता गणेशस्तुतिः संस्कृत Lyrics
|| दक्षकृता गणेशस्तुतिः ||
दक्ष उवाच ।
पूर्वजन्मकृतं पुण्यं फलितं मे द्विजोत्तम ।
यन्मयाऽदर्शि तं रूपं ते द्विविधं परमं महत् ॥ ३७॥
वैनायकञ्च वैप्रं चजन्म मेऽजनि सार्थकम् ।
कारणानां परं त्वं चकारणं छन्दसामपि ॥ ३८॥
परं ज्ञेयं परं ब्रह्म श्रुतिमृग्यं सनातनम् ।
त्वमेव साक्षी सर्वस्व सर्वस्यान्तर्बहिस्तथा ॥ ३९॥
त्वमेव कर्ता कार्याणां लघुस्थूलशरीरिणाम् ।
नानारूप्येकरूपी त्वं निरूपश्च निराकृतिः ॥ ४०॥
त्वमेव शङ्करो विष्णुस्त्वमेवेन्द्रोऽनलोऽर्यमा ।
भूवायुखस्वरूपोऽपि जलसोमर्क्षरूपवान् ॥ ४१॥
विश्वकर्ता विश्वपाता विश्वसंहारकारकः ।
चराचरगुरोर्गोप्ता ज्ञानविज्ञानवानपि ॥ ४२॥
भूतं भावि भवच्चैव त्वमेवेन्द्रियदेवताः ।
कलाः काष्ठा मुहूर्ताश्च श्रीर्धृतिः कान्तिरेव च ॥ ४३॥
त्वमेव साङ्ख्यं योगश्च शास्त्राणि श्रुतिरेव च ।
पुराणानि चतुःषष्टिकला उपनिषत्तथा ॥ ४४॥
त्वमेव ब्राह्मणो वैश्यः क्षत्रियः शूद्र एव च ।
देशो विदेशस्त्वं क्षेत्रं पुण्यक्षेत्राणि यान्युत ॥ ४५॥
त्वं प्रमेयोऽप्रमेयश्च योगिनां ज्ञानगोचरः ।
त्वमेव स्वर्गःपातालं वनान्युपवनानि च ॥ ४६॥
ओषध्योऽथ लतावृक्षकन्दमूलफलानि च ।
अण्डजा जारजा जीवाः स्वेदजा उद्भिजा अपि ॥ ४७॥
कामः क्रोधः क्षुधा लोभो दम्भो दर्पो दया क्षमा ।
निद्रा तन्द्रा विलासश्च हर्षः शोकस्त्वमेव च ॥ ४८॥
इति दक्षकृता गणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदक्षकृता गणेशस्तुतिः
READ
दक्षकृता गणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
