दम्भासुरकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihdambhasurakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
दम्भासुरकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| दम्भासुरकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
दम्भासुर उवाच ।
नमस्ते ब्रह्मरूपाय ब्रह्माकारशरीरिणे ।
ब्रह्मणे ब्रह्मदात्रे च गणेशाय नमो नमः ॥ ९॥
नमस्ते त्रिदशेशाय दैत्यदानवपाय च ।
सर्वत्र योगरूपाय भावहीनाय ते नमः ॥ १०॥
सिद्धिबुद्धिपते तुभ्यं नमः सिंहध्वजाय च ।
गणानां पतये तुभ्यं हेरम्बाय नमो नमः ॥ ११॥
एकदन्ताय देवाय ह्यनन्तविभवाय ते ।
विघ्नेशाय महाविघ्ननाशनाय नमो नमः ॥ १२॥
अपारगुणधाराय दैत्यदानवमर्दिने ।
मनोवाणीमयायैव सर्वरूपाय ते नमः ॥ १३॥
मनोवाणीविहीनाय योगिभ्यो योगदायिने ।
योगाय योगनाथाय विश्वपाय नमो नमः ॥ १४॥
मायाधाराय मायायाश्चालकाय नमो नमः ।
मायाहीनाय सर्वत्र समभावधराय ते ॥ १५॥
अव्यक्ताय नमस्तुभ्यं व्यक्तिमूलधराय च ।
निर्मोहाय समोहाय लम्बोदर नमो नमः ॥ १६॥
यं स्तोतुं न समर्थाश्च वेदाः साङ्गा महर्षयः ।
योगीन्द्रा ब्रह्मविष्ण्वाद्यास्तं किं स्तौमि परात् परम् ॥ १७॥
इत्युक्त्वा पतितः पृथ्व्यां दम्भो भक्तिसमन्वितः ।
तमुत्थाप्य गणाधीश ऊचिवान् भक्तिभावितः ॥ १८॥
(फलश्रुतिः)
गणेश उवाच ।
त्वया दम्भ कृतं स्तोत्रं मम सन्तोषवर्धनम् ।
यः पठेत् पाठयेत्तद्वा स सर्वं सुखमाप्नुयात् ॥ १९॥
पुत्रपौत्रकलत्रादि धनधान्यप्रदं भवेत् ।
आधिव्याधिहरं चैव सर्वोपद्रवनाशनम् ॥ २०॥
एककालं द्विकालं वा त्रिकालं सततं तथा ।
यः पठेत् स नरोऽत्यन्तं मम प्रीतिकरो भवेत् ॥ २१॥
त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
अधुना शरणं यातस्ततो हन्मि न निश्चितम् ॥ २२॥
वरं वरय मत्तस्त्वं यत्त्वच्चित्ते स्थितं परम् ।
स्तोत्रेण भक्तिभावेन सन्तुष्टोऽहं ददामि ते ॥ २३॥
इति दम्भासुरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदम्भासुरकृता श्रीगणेशस्तुतिः
READ
दम्भासुरकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
