देवर्षयकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihdevarshayakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
देवर्षयकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| देवर्षयकृता श्रीगणेशस्तुतिः ||
देवर्षय ऊचुः ।
नताः स्मो विघ्नकर्तारं दयालुं सर्वपालकम् ।
सर्वस्य जगतो हेतुं सर्वव्यापिनमीश्वरम् ॥ २१॥
अनेकशक्तिसंयुक्तं सर्वकामप्रपूरकम् ।
दीनानुकम्पिनं देवं सर्वज्ञं करुणानिधिम् ॥ २२॥
स्वेच्छोपात्ताकृतिं नैकावतारनिरतं सदा । (नाना ह्यवताररतं सदा)
गुणातीतं गुणक्षोभं चराचरगुरुं विभुम् ॥ २३॥
एकदन्तं द्विदन्तं च त्रिनेत्रं दशहस्तकम् ।
शुण्डादण्डमुखं विघ्ननाशनं पापहारकम् ॥ २४॥
भक्तानां वरदं नित्यं सृष्टिस्थित्यन्तकारकम् ।
अनादिमध्यनिधनं भूतादि भूतवर्धनम् ॥ २५॥
त्रिलोकेशं सुराधीशं दुष्टदानवमर्दनम् ।
लम्बकर्णं बृहद्भानुं व्यालभूषाधरं शुभम् ॥ २६॥
इति देवर्षयकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदेवर्षयकृता श्रीगणेशस्तुतिः
READ
देवर्षयकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
