दूर्वाकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihdurvakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
दूर्वाकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| दूर्वाकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
दूर्वोवाच ।
गणेशाय नमस्तुभ्यं विघ्नराजाय ते नमः ।
भक्तानां विघ्नसंहर्त्रे त्वभक्तानां भयङ्कर ॥ ३२॥
अनन्तायाप्रमेयाय नानालीलाधराय च ।
हेरम्बाय महेशानां नमः पूज्याय ते नमः ॥ ३३॥
सर्वपूज्याय सर्वादिपूज्याय ब्रह्मरूपिणे ।
ब्रह्माकाराय सर्वेश ब्रह्मणस्पतये नमः ॥ ३४॥
अनाकाराय साकारमूर्तये ब्रह्मरूपिणे ।
शान्तिभ्यः शान्तिदात्रे ते परेशाय नमो नमः ॥ ३५॥
लम्बोदराय चौरेशवाहनाय परात्मने ।
चतुर्भुजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ३६॥
ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ ३७॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ ३८॥
किं स्तौमि त्वां गणाधीश यत्र वेदा विसिस्मिरे ।
अतस्त्वां प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ ३९॥
एवं स्तुत्वा गणेशानं भक्तियुक्ता ननर्त ह ।
जगाद गणराजस्तु दूर्वां तां हर्षसंयुतः ॥ ४०॥
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रमपराधसहं भवेत् ।
मां स्तौति तस्य दूर्वेऽहमपराधं सहाम्यहम् ॥ ४१॥
यं यं चिन्तयते कामं तं तं दास्यामि सर्वदा ।
भुक्तिमुक्तिप्रदं स्तोत्रं भविष्यति सुसिद्धिदम् ॥ ४२॥
वरं वरय दास्यामि चित्तस्थं भक्तितोषितः ।
क्रोधयुक्तोऽपि देवि त्वां मन्त्रत्यागकरीं पुनः ॥ ४३॥
श्रुत्वा तं भयसंयुक्ता जगाद वाक्यमुत्तमम् ।
दूर्वा लम्बोदरं प्रीत्या साश्रुनेत्रा प्रजापते ॥ ४४॥
दूर्वोवाच ।
वरदोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् ।
दृढां देहि गणाध्यक्ष तया सर्वं शुभं भवेत् ॥ ४५॥
अन्यच्च मदसंयुक्तां जगदम्बां गजानन ।
स्पर्धेहं तत्कलांशा वै तया शप्ताऽतिदारुणम् ॥ ४६॥
तृणरूपा भविष्यामि पतिष्यामि धरातले ।
तदर्थं त्वामनुप्राप्ता रक्ष मां महतो भयात् ॥ ४७॥
श्रीगजानन उवाच ।
मा कुरुष्व वृथा चिन्तां दूर्वे मे शरणागते ।
सर्वं शुभं करिष्यामि भविष्यामि नियन्त्रितः ॥ ४८॥
अंशेन तृणरूपा त्वं भविष्यसि महीतले ।
देवी देहधरा स्वर्गे चरिष्यसि यथा पुरा ॥ ४९॥
पृथिव्यां तृणरूपा त्वममृतरूपधारिका ।
शतमूला प्रकाण्डाद् वै प्ररोहा च शताङ्कुरा ॥ ५०॥
सर्वमान्या सर्वपूज्या देवादीनां सदा प्रिया ।
भविष्यसि न सन्देहो मद्वरादन्ननायिके ॥ ५१॥
महामङ्गलदा प्रोक्ता मम प्रीतिविवर्धिनी ।
भविष्यसि तु लोकानां शुभमङ्गलदायिका ॥ ५२॥
त्वत्पत्रेण नरा भूमावर्चयिष्यन्ति देवपान् ।
न त्वत्समं तु पत्रेषु पुण्यदं प्रभविष्यति ॥ ५३॥
शक्तेश्चैवावतारा ये लक्ष्मीललितिकादयः ।
तासां प्रिया विशेषेण भविष्यसि महाशुभे ॥ ५४॥
शापिता गिरिपुत्र्या त्वं सा त्वां नैव स्पृशेत् कदा ।
अन्यत्र मान्यभावेन भविष्यसि न संशयः ॥ ५५॥
मदीया भक्तिरत्यन्तं दृढा ते प्रभविष्यति ।
मच्चित्ता मद्गतप्राणा भविष्यसि च दूर्विके ॥ ५६॥
मदीयामिच्छसि भक्तिमतस्तेऽहं सुहर्षितः ।
करिष्यामि सदा देवि मम प्रीतिविवर्धिनीम् ॥ ५७॥
दूर्वापत्रं विना देवि पूजयिष्यन्ति मां नराः ।
तेषां नैव फलं तस्याः पूजायाः प्रभविष्यति ॥ ५८॥
दूर्वासमं न मे किञ्चित् पूजायां सुप्रियं भवेत् ।
विना दूर्वां निराहारी भविष्यामि निरन्तरम् ॥ ५९॥
त्यक्त्वा दूर्वादलं ये वै पूजयिष्यन्ति मानवाः ।
शत्रवस्ते मता नित्यं नरकेषु पचन्तु ते ॥ ६०॥
येनार्पितं च पूजायां दूर्वापत्रं महामते ।
तेनापारमयं सर्वं दत्तं मह्यं विशेषतः ॥ ६१॥
दूर्वापत्रेण सन्तुष्टो दास्यामि सकलं च मे ।
ऐश्वर्यं तदपि प्राज्ञे न समं दूर्वया भवेत् ॥ ६२॥
ये मद्भक्ताश्च तैर्नित्यं कर्तव्यं दूर्वया युतम् ।
पूजनं मे सदा देवि जितोऽहं नात्र संशयः ॥ ६३॥
एवमुक्त्वा गणेशानोंऽतर्दधे च प्रजापते ।
इति दूर्वाकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowदूर्वाकृता श्रीगणेशस्तुतिः
READ
दूर्वाकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
