गृत्समदकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihgrritsamadakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
गृत्समदकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| गृत्समदकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच ।
नमस्ते ब्रह्मणां नाथ ब्रह्मणां ब्रह्मरूपिणे ।
ब्रह्मणस्पतये तुभ्यं गणेशाय नमो नमः ॥ १॥
ज्येष्ठराजाय ज्येष्ठानां ज्येष्ठपदप्रदायिने ।
ज्येष्ठानां ज्येष्ठरूपाय सर्वपूज्याय ते नमः ॥ २॥
कर्तॄणां कतृरूपाय कवये कविनायक ।
कर्तृभ्यः कर्तृदात्रे वै कविराजाय ते नमः ॥ ३॥
जगत्सु ब्रह्मसु प्राज्ञ नानाभोगकराय ते ।
उपमान्नप्रभोक्त्रे तु ब्रह्मभोक्त्रे नमो नमः ॥ ४॥
सदा मोहयुतायैव मोहमोहकराय ते ।
जीवाय बृहतां नाथाय बृहस्पतये नमः ॥ ५॥
सदा ब्रह्मसुखस्थाय परमात्मस्वरूपिणे ।
गुहाहिताय साङ्ख्याय बृहस्पतिसखाय ते ॥ ६॥
स्वसंवेद्यमयायैव स्वानन्दे योगधारिणे ।
जीवानां ब्रह्मणां संयोगाय ते वै नमो नमः ॥ ७॥
सत्यायायोगरूपाय मनोवाणीविवर्जित ।
भद्राणां भद्रकायैव सत्यसत्याय ते नमः ॥ ८॥
सर्वेषां पोषकायैव सोमायामृतरूपिणे ।
सोमानां सोमदात्रे ते पुष्टिनाथाय ते नमः ॥ ९॥
उत्तिष्ठत्सृष्टिकर्त्रे ते पालकाय हराय च ।
त्रयीमयाय तूर्याय तूर्यातीताय ते नमः ॥ १०॥
इन्द्रादिदेवतानां वै सहायाय नमो नमः ।
धर्मपालकभावाय धर्माधीशाय ते नमः ॥ ११॥
सर्वेषां राज्यदात्रे वै राज्यराजाय ते नमः ।
अराज्याय परेशाय संसारार्णवतारिणे ॥ १२॥
योगेभ्यो योगदात्रे च योगयोगाय ते नमः ।
शान्तिदाय सदा शान्तिस्थाय तत्पतये नमः ॥ १३॥
इत्यादि भेदा बहवो ब्रह्मणो वेदवादतः ।
तेषां स्वामिस्वरूपाय ब्रह्मणे ते नमो नमः ॥ १४॥
किं स्तौमि गणनाथ त्वां ब्रह्मणस्पतिरूपिणम् ।
भव प्रसन्नो ब्रह्मेश कृपया ते नमो नमः ॥ १५॥
एवं गृत्समदः स्तुत्वा गणेशानं महीपते ।
हर्षेणोत्फुल्लनयनो ननर्त प्रेमविह्वलः ॥ १६॥
दृष्ट्वा तं गणराजस्तु जगाद घननिस्वनः ।
वरं मत्तस्त्वं वरयाधुना स्तोत्रेण तोषितः ॥ १७॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति न सन्देहो मम भक्तिविवर्धनम् ॥ १८॥
सदा शान्तिमयो भूत्वा मां भजिष्यसि मानद ।
त्वया कृतेन स्तोत्रेण ब्रह्मभूतो भविष्यसि ॥ १९॥
पुत्रपौत्रादिकं सर्वं धनधान्यादिवर्धनम् ।
प्रभविष्यति पाठेन श्रवणेन मुनेऽस्य तु ॥ २०॥
तस्य तद्वचनं श्रुत्वा सावधानो बभूव ह ।
नियम्य हर्षमुग्रं स प्रणनाम गजाननम् ॥ २१॥
उवाच विस्खलद्वाक्यो मुनिर्गृत्समदो महान् ।
गणेशं भक्तिसंयुक्तो भक्तराजेश्वरः स्वयम् ॥ २२॥
गृत्समद उवाच ।
धन्यौ मे जनकौ नाथ जन्म धन्यं तपो वयः ।
विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ २३॥
अहो साक्षाद्गणेशानो ब्रह्मेन्द्रो दृष्टिमागतः ।
मनोवाणीविहीनो न ताभ्यां युक्तो न वै भवान् ॥ २४॥
एतादृशं गणेशानं दृष्ट्वा त्वां किं वृणोम्यहम् ।
तथापि वरयामि त्वां त्वदाज्ञापालनार्थतः ॥ २५॥
ब्रह्मभूताश्च वेदेषु ब्राह्मणाः कथिता बुधैः ।
अतो मां ब्राह्मणं नाथ कुरु योगीन्द्र वन्द्यकम् ॥ २६॥
यथा त्वं ब्रह्मणां नाथस्तथाऽहं ब्रह्मभूयिनाम् ।
नाथो भवामि विघ्नेश योगीन्द्राणां गुरोर्गुरुः ॥ २७॥
त्वदीयपादपद्मे वै भक्तिं देहि गजानन ।
सुदृढां गाणपत्येषु सङ्गं देहि सदा च मे ॥ २८॥
गाणपत्येषु विख्यातं मां कुरुष्व विशेषतः ।
गृत्समदसमो नास्ति गाणपत्यस्वभावधृक् ॥ २९॥
एवमुक्त्वा गणेशानं प्रणनाम महामुनिः ।
तमुवाच गणेशानो भक्तिं दृष्ट्वा महाद्भुताम् ॥ ३०॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
गणानां त्वेति मन्त्रस्य जपः खलु कृतस्त्वया ।
सूक्तस्यापि तथा मे वै तत्र मुख्यो भविष्यसि ॥ ३१॥
ऋषिर्भव महाभाग गणानां त्वास्य मन्त्रतः ।
सूक्तस्यापि विशेषेण ब्राह्मणेन्द्रो भवापि तु ॥ ३२॥
आदावृषेश्च यज्ञादौ स्मरणं ते करिष्यति ।
पश्चान् मे देवतायाश्च मुख्यो भव मदीयके ॥ ३३॥
न त्वत्समो भवेत् कुत्र मद्भक्तेषु महामुने ।
मानयिष्यन्ति विप्रास्त्वामत्रिमुख्या न संशयः ॥ ३४॥
त्वदीयस्मरणं नास्ति मन्त्रे वैदिकगे च मे ।
गणानां त्वा जपिष्यन्ति फलहीना भवन्तु ते ॥ ३५॥
शिवविष्ण्वादयो देवा ब्रह्माद्या ब्राह्मणा नराः ।
शेषाद्याश्चासुराद्याश्च त्वां नमस्यन्ति नित्यदा ॥ ३६॥
त्वदीयावज्ञया क्रुद्धो दहिष्यामि चराचरम् ।
त्वदीयहृदये नित्यं स्थास्यामि भक्तिलोलुपः ॥ ३७॥
त्वया यत्र तपस्तप्तं तदेव क्षेत्रमुत्तमम् ।
भविष्यति मदीयं वै पुष्पकं सर्वसिद्धिदम् ॥ ३८॥
भुक्तिं मुक्तिं ब्रह्मभूयं भक्तिं पुष्णाति मानद ।
तेन क्षेत्रं समाख्यातं पुष्यकं मत्समाश्रितम् ॥ ३९॥
यद्यच्चिन्तयसि प्राज्ञ तत्तत्ते सफलं भवेत् ।
स्मरणेन महाकार्ये प्रत्यक्षोऽहं भवामि च ॥ ४०॥
इति गृत्समदकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगृत्समदकृता श्रीगणेशस्तुतिः
READ
गृत्समदकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
