जडभरतकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihjadabharatakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
जडभरतकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| जडभरतकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
जडभरत उवाच ।
नमः शान्तिस्वरूपाय शान्तिदाय कृपालवे ।
विघ्नेशाय नमस्तुभ्यं हेरम्बाय नमो नमः ॥ ५॥
सिद्धेः पते च तद्दात्रे भक्तानां भयभञ्जन ।
भक्तिप्रियाय वै तुभ्यं भक्तभक्ताय ते नमः ॥ ६॥
बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने ।
ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥ ७॥
मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च ।
स्वानन्दवासिने देव वक्रतुण्डाय ते नमः ॥ ८॥
नानाविहारयुक्तायानन्तरूपाय ते नमः ।
अमेयाय सदायोगशान्तिस्थाय नमो नमः ॥ ९॥
धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः ।
वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥ १०॥
मया किं ते कृतं देव दर्शनार्थं किमागतः ।
भक्त्या समं न किञ्चित्ते प्रियं ज्ञातं मयाधुना ॥ ११॥
भक्त्या त्वां हृदि सन्ध्यायन् संस्थितो जडवत्प्रभो ।
त्वमेव मोहितो भक्त्या मम सन्न्निधिगः कृतः ॥ १२॥
अहो भक्तिसमं किञ्चिन्नैव दृष्टं न च श्रुतम् ।
यया त्वं शान्तियोगस्थो मोहितः सहसाऽऽगतः ॥ १३॥
त्वदीयांशसमुत्पन्नं सकलं ब्रह्मनायक ।
किं ददामि गणेशान येन तुष्टो भविष्यसि ॥ १४॥
अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः ।
वरं देहि महाबाहो येन तृप्तो भवाम्यहम् ॥ १५॥
भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जिताम् ।
देहि नाथ दयासिन्धो नान्यद् याचे कदाचन ॥ १६॥
एवमुक्त्वा गणाध्यक्षं ननाम स पुनः पुनः ।
प्रेम्णा ननर्त योगीन्द्रस्तमुवाच गणाधिपः ॥ १७॥
(फलश्रुतिः)
गणेश उवाच ।
भविता सुदृढा भक्तिर्मम ते मुनिसत्तम ।
व्यभिचारविहीना ते न चाङ्गिरस संशयः ॥ १८॥
त्वया कृतमिदं स्तोत्रं मदीयं योगशान्तिदम् ।
भविष्यति महाभाग मम प्रीतिकरं परम् ॥ १९॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः ।
शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ॥ २०॥
एवमुक्वान्तर्दधेऽसौ गणनाथः प्रजापते ।
स मुनिर्भक्तिसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ २१॥
अन्ते गणेशरूपोऽसौ जातो योगीन्द्रसत्तमः ।
गुहा तत्र प्रसिद्धा वै वर्ततेऽद्य महामुनेः ॥ २२॥
इति जडभरतकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowजडभरतकृता श्रीगणेशस्तुतिः
READ
जडभरतकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
