श्रीगणेशस्तुतिः मङ्गलाचरणम् PDF संस्कृत
Download PDF of Ganeshastutihmangalacharanam Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्रीगणेशस्तुतिः मङ्गलाचरणम् संस्कृत Lyrics
|| श्रीगणेशस्तुतिः मङ्गलाचरणम् ||
॥ श्रीगणेशाय नमः ॥
गणाधिपं तं गुण ग्रामवारिधिं
शैलेन्द्रकन्यात्मजवाञ्छिप्रदम् ।
अशेषनिर्विघ्नकरं सुमङ्गलं
नमामिविघ्नेश्वर पादपङ्कजम् ॥ १॥
गजाकृतिन्तं गणनाथमेकं
शैलेन्द्रजायात्म समुद्भवञ्च ।
विद्याप्रदं बुद्धिप्रदञ्चलोकान्
विघ्नेश्वरं विघ्नहरं नमामि ॥ २॥
चतुर्भुजं सुन्दरमेकदन्तं
शङ्खाङ्कुशं मोदकमेक हस्तम् ।
वक्षायतं तुङ्गमहोदरं शुभं
नमामिनित्यं गणनायकं विभुम् ॥ ३॥
पार्वती तनयं देवं कोटि सूर्य सम प्रभाम् ।
निर्विघ्नं कुरुमेनित्यं प्रसन्नोभव सर्वदा ॥ ४॥
एकदन्तं वक्रतुण्डं सर्वविघ्नविनाशकम् ।
भालचन्द्रं शान्तमूर्तिं सूपकर्णम्मसुशोभनम् ॥ ५॥
मङ्गलायतनं शान्तं वाञ्छितफलदायकम् ।
कोटिसूर्य समाभासं चन्द्रकोटि समाननम् ॥ ६॥
कोटिकन्दर्पलावण्यं कोटिसद्गुणसागरम् ।
सर्वत्रानन्ददातारं मङ्गलागार सर्वदा ॥ ७॥
सिद्धिबुद्धि समायुक्तं क्षेमलाभसमन्वितम् ।
ज्ञानदं बुद्धिदं देवं तं नमामि गजानम् ॥ ८॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं गणेशाष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीगणेशस्तुतिः मङ्गलाचरणम्
READ
श्रीगणेशस्तुतिः मङ्गलाचरणम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
