ऋषभकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihrrishabhakrrita Stuti Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
ऋषभकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| ऋषभकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
ऋषभ उवाच ।
नमस्ते ब्रह्मरूपाय गणेश करुणानिधे ।
भेदाभेदादिहीनाय गणानां पतये नमः ॥ ४२॥
निराकाराय नित्याय जगदाकारमूर्तये ।
अनन्ताय परेशाय परात्परतराय ते ॥ ४३॥
आदिमध्यान्तहीनाय गुणाकाराय ते नमः ।
गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च ॥ ४४॥
नमो नानावताराय भक्तपालनहेतवे ।
सुरासुरमयायैव सुरासुरसुपूजित ॥ ४५॥
योगाय योगदात्रे च योगाकाराय ते नमः ।
योगानां पतये तुभ्यं ब्रह्मणां पतये नमः ॥ ४६॥
सर्वादये गणाध्यक्ष सर्वपूज्याय ढुण्ढये ।
सर्वान्ते ह्यवशिष्टाय विघ्नेशाय नमो नमः ॥ ४७॥
हेरम्बाय निजानन्दवासिने सिद्धसेवित ।
सिद्धिबुद्धिपते तुभ्यं नाना खेलकराय ते ॥ ४८॥
धर्मार्थकाममोक्षाणां दायकाय नमो नमः ।
ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च ॥ ४९॥
किं स्तौमि त्वां गणाधीश योगशान्तिमयं प्रभो ।
यं स्तोतुं न समर्थाश्च वेदाद्याः शिवमुख्यकाः ॥ ५०॥
तथापि च यथाबुद्धिज्ञानं त्वं संस्तुतो मया ।
भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ॥ ५१॥
मुद्गल उवाच ।
इत्युक्त्वा निपपातोर्व्यां पदं धृत्वा महायशाः ।
गणेशस्य च तेनापि समुत्थापित आदरात् ॥ ५२॥
जगाद गणनाथः स ऋषभं भक्तमुत्तमम् ।
शिवशिष्यं शिवप्रज्ञं साक्षाद्विष्णुं सनातनम् ॥ ५३॥
(फलश्रुतिः)
गणेश उवाच ।
मदीया भक्तिरत्यन्तं भविष्यत्यचलानघ ।
स्तोत्रं त्वया कृतं मे तु शान्तिदं प्रभविष्यति ॥ ५४॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।
श्रवणान्नात्र सन्देहो भावपूर्णं मतं मम ॥ ५५॥
इति ऋषभकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowऋषभकृता श्रीगणेशस्तुतिः
READ
ऋषभकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
