ऋषिपुत्राकृता श्रीगणेशस्तुतिः PDF संस्कृत
Download PDF of Ganeshastutihrrishiputrakrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
ऋषिपुत्राकृता श्रीगणेशस्तुतिः संस्कृत Lyrics
|| ऋषिपुत्राकृता श्रीगणेशस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
ऋषिपुत्रा ऊचुः ।
नमस्ते वक्रतुण्डाय भक्तरक्षकरूपिणे ।
ब्रह्माकाराय देवाय ब्रह्मभूताय ते नमः ॥ ५॥
मनोवागतिरूपाय मनोवारगम्यमूर्तये ।
योगाकाराय योगाय योगिने ते नमो नमः ॥ ६॥
निराकाराय विघ्नेश भक्तविघ्ननिवारक ।
शान्तिरूपाय सर्वत्र शान्तिदाय नमो नमः ॥ ७॥
सृष्टिरक्षणसंहारकारिणे ते नमो नमः ।
सर्वपूज्याय सर्वाय नमः सर्वादिमूर्तये ॥ ८॥
मायाविकारहीनाय मायिने मोहदायिने ।
मायाधाराय मायायाश्चालकाय नमो नमः ॥ ९॥
अनन्तविभयायैवानन्तोदारपराक्रम ।
अनन्ताननहस्ताय सर्वसाक्षिन्नमोऽस्तु ते ॥ १०॥
वेदान्तागम्यरूपस्त्वं दृष्टो वै भाग्यगौरवात् ।
स्तुतिं कर्तुं समर्था न वयं तव गजानन ॥ ११॥
धन्यो नो जनको देव वयं धन्यतमा विभो ।
विद्या व्रतं तपो मन्त्रोऽस्माकं गणपदर्शनात् ॥ १२॥
वरदश्चेदेकदन्त भक्तिं देहि दृढां त्वयि ।
यया मायामयो मोहो नश्येद्वै वरद प्रभो ॥ १३॥
स्वस्वकार्येषु सामर्थ्यं देहि देव गजानन ।
यद्यदिच्छामहे तत्तत् सफलं भवतु प्रभो ॥ १४॥
एवमुक्त्वा पूजयन्त उपचारैरनेकशः ।
प्रणेमुर्भक्तियुक्तास्तं सरोमाञ्चा बभूविरे ॥ १५॥
ततस्तानब्रवीद्देवो भवतां यच्चिकीर्षितम् ।
तदेव सफलं सर्वं भविष्यति न संशयः ॥ १६॥
(फलश्रुतिः)
भक्तिर्मदीयपादेषु भविष्यति सुखप्रदा ।
सामर्थ्यं स्वस्वकार्येषु दृढा ख्यातिर्भविष्यति ॥ १७॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
यः शृणोति नरो भक्त्या पठेद्वै तस्य सिद्धिदम् ॥ १८॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
स सद्यः फलमाप्नोति चित्तेप्सितमसंशयम् ॥ १९॥
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ।
ते च स्वस्वगृहे सर्वे ययुर्हर्षसमन्विताः ॥ २०॥
स्त्रियश्च पुरुषाः सर्वे दक्षकन्या समुद्भवाः ।
सुखिनः स्वस्वकार्येषु बभूवुर्ज्ञानसंयुताः ॥ २१॥
इति ऋषिपुत्राकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowऋषिपुत्राकृता श्रीगणेशस्तुतिः
READ
ऋषिपुत्राकृता श्रीगणेशस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
