गणेशस्तुतिः तत्त्वैः कृता PDF संस्कृत
Download PDF of Ganeshastutihtattvaihkrrita Sanskrit
Shri Ganesh ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
गणेशस्तुतिः तत्त्वैः कृता संस्कृत Lyrics
|| गणेशस्तुतिः तत्त्वैः कृता ||
श्रीगणेशाय नमः ।
तत्त्वान्यूचुः ।
नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च ।
सर्वाधीशाय सर्वाय गणानां पतये नमः ॥ ३९॥
अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः ।
समाय विषमायैव विघ्नेशाय नमो नमः ॥ ४०॥
आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने ।
नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥ ४१॥
अनन्तोदरसंस्थाय नानाभोगकराय च ।
भोगहीनाय सर्वत्र स्वानन्दपतये नमः ॥ ४२॥
मायाधाराय वै तुभ्यं मायाहीनाय ते नमः ।
मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥ ४३॥
सर्वसिद्धिधरायैव सिद्धीनां पतये नमः ।
सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥ ४४॥
जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः ।
कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥ ४५॥
कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः ।
ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाय ते नमः ॥ ४६॥
चतुर्विधधरायैव चतुर्विधमयाय च ।
चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥ ४७॥
पाशाङ्कुशधरायैव दन्ताभयधराय च ।
चतुर्भुजाय वै शूर्पश्रुतये तुन्दिलाय च ॥ ४८॥
महते चैकदन्ताय महतां च महीयसे ।
लघवे लघुरूपाय लघूनां लाघवे नमः ॥ ४९॥
गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे ।
ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥ ५०॥
किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये ।
नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥ ५१॥
कृताञ्जलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः ।
तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥ ५२॥
(भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् ।
तपसाऽहं प्रसन्तुष्टो भक्त्या स्तोत्रेण भावतः ॥ ३॥
भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम ।
सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥ ४॥
विद्याकामो लभेद्विद्यां धनकामो धनं लभेत् ।
स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥ ५॥
मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् ।
अस्य स्तोत्रस्य पठनात् वाञ्छितं लभते परम् ॥ ६॥)
इति तत्त्वैः कृता गणेशस्तुतिः समाप्ता ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगणेशस्तुतिः तत्त्वैः कृता
READ
गणेशस्तुतिः तत्त्वैः कृता
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
