श्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshavajrapanjara Stotram Shrishivakrritam Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रम् संस्कृत Lyrics
|| श्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
श्रीशिव उवाच ।
गणेशाय नमस्तुभ्यं विघ्नराजाय ढुण्ढये ।
परेशाय च हेरम्बाय पाशिने नमो नमः ॥ १९॥
मूषकवाहनायैव नमः परशुपाणये ।
दन्ताभयधरायैव त्रिनेत्राय नमो नमः ॥ २०॥
शूर्पकर्णाय वीराय चन्द्ररेखाधराय ते ।
सिन्दूरभूषणायैव रक्तरङ्गाय ते नमः ॥ २१॥
हेरम्बाय महाविघ्नवारणाय गजानन ।
आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः ॥ २२॥
स्वानन्दवासिने तुभ्यं स्वानन्दमयमूर्तये ।
सर्वाकाराय सर्वेषां मात्रे पित्रे नमो नमः ॥ २३॥
अनन्तोदरभावाय ब्रह्मणां पतये नमः ।
ब्रह्मभूताय देवाय दैत्यदानवमर्दिने ॥ २४॥
अनन्तविभवायैव भक्तपालनधर्मिणे ।
अभक्तानां विनाशाय खेलकाय नमो नमः ॥ २५॥
योगाय योगनाथाय योगिने योगदायिने ।
सदा शान्तिस्वरूपाय शान्तिशाताय ते नमः ॥ २६॥
किं स्तौमि त्वां गणेशान ब्रह्मणस्पतिरूपिणम् ।
योगिनो वेदवेदान्ताः शान्तिं यत्र भजन्ति च ॥ २७॥
धन्योऽहं देवपैर्देवैर्मुनिभिर्गणनायक ।
दर्शनात्तेऽद्य पादस्य परात्परतरस्य च ॥ २८॥
सामर्थ्यं देहि विघ्नेश ज्ञानरूपं त्वयि स्थितम् ।
आज्ञानान्धकनाशार्थं भक्तिं तेऽव्यभिचारिणीम् ॥ २९॥
एवमुक्त्वा ननर्ताऽसौ महादेवः सुरर्षिभिः ।
तं जगाद गणाधीशो भक्तं भक्तजनप्रियः ॥ ३०॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
वज्रपञ्जरकं मे त्वं गृह्य दैत्येन्द्रसत्तमम् ।
जहि ज्ञानमयं शम्भो विजयी सर्वदा भव ॥ ३१॥
भक्तिं मदीयपादे त्वं लभसेऽनन्यवृत्तिजाम् ।
यद्यदिच्छसि तत्तत्ते सफलं तु भविष्यति ॥ ३२॥
त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः ।
शृणुयात् स लभेत् सर्वं वाञ्छितं सर्वदा शिव ॥ ३३॥
भुक्तिं मुक्तिं पुत्रपौत्रधनधान्यादिकं लभेत् ।
भक्तिं मे ब्रह्मभूतत्वं श्रवणान्नात्र संशयः ॥ ३४॥
इति श्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रम्
READ
श्रीशिवकृतं श्रीगणेशवज्रपञ्जरस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
