गणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम् PDF संस्कृत
Download PDF of Ganeshvarastotrambhrushundi Sanskit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
गणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम् संस्कृत Lyrics
|| गणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम् ||
श्रीगणेशाय नमः ॥
भ्रूशुण्ड्युवाच –
नमो नमस्ते गणनाथ ढुण्ढे सदा सुशान्तिप्रद शान्तिमूर्ते ।
अपारयोगेन च योगिनस्त्वां भजन्ति भावेन नमो नमस्ते ॥ १॥
प्रजापतीनां त्वमथो विधाता सुपालकानां गणनाथ विष्णुः ।
हरोऽसि संहारकरेषु देव कलांशमात्रेण नमो नमस्ते ॥ २॥
क्रियात्मकानां जगदम्बिका त्वं प्रकाशकानां रविरेव ढुण्ढे ।
यत्नप्रदानां च गुणेश नामा कलांशमात्रेण नमो नमस्ते ॥ ३॥
शरीरभाजां त्वमथासि बिन्दुः शरीरिणां सोऽहमथो विभासि ।
सुबोधरूपः स्वत उत्थकानां कलांशमात्रेण नमो नमस्ते ॥ ४॥
विदेहकानामसि साङ्ख्यरूपः समाधिदानां च निजात्मकस्त्वम् ।
निवृत्तियोगे त्वमयोगधारी कलांशमात्रेण नमो नमस्ते ॥ ५॥
गणास्त एते गणनाथनाम्ना त्वमेव वेदादिषु योगकीर्ते ।
सदा सुशान्तिप्रद संस्थितोऽसि भक्तेश भक्तिप्रिय ते नमो वै ॥ ६॥
गकारसिद्धिस्त्वपि मोहदात्री णकारबुद्धिस्त्वथ मोहधात्री ।
तयोर्विलासी पतिरेव नाम्ना गणेश्वरस्त्वं च नमो नमस्ते ॥ ७॥
गकाररूपेण भवान् स गौणो णकाररूपेण च निर्गुणोऽसि ।
तयोरभेदे गणनाथनामा योगेश भक्तेश नमो नमस्ते ॥ ८॥
किं वदामि गणाधीश महिमानं महाद्भुतम् ।
यत्र वेदादयो भ्रान्ता इव जाताः प्रवर्णने ॥ ९॥
पतितानामहं श्रेष्ठः पतितोत्तम एव च ।
तव नामप्रभावेण जातोऽहं ब्राह्मणोत्तमः ॥ १०॥
किञ्चित्संस्कारयोगेन विश्रामित्रादयः प्रभो ।
जाता वै ब्राह्मणत्वस्य ब्राह्मणानिर्मलाः पुरा ॥ ११॥
अहं संस्कारहीनश्च जात्या कैवर्तकोद्भवः ।
तत्राऽपि पापसक्तात्मा त्वया च ब्राह्मणः कृतः ॥ १२॥
एवमुक्त्वा नतं विप्रं प्राञ्जलिं पुरतः स्थितम् ।
भक्तिभावेन सन्तुष्टस्तमुवाच गजाननः ॥ १३॥
गणेश उवाच –
वरान्वरय दास्यामि यांस्त्वं विप्र प्रवाञ्छसि ।
त्वत्समो नैव तेजस्वी भक्तो मे प्रभविष्यति ॥ १४॥
तस्य तद्वचनं श्रुत्वा साश्रुनेत्रो महामुनिः ।
भ्रूशुण्डी गद्गदोक्त्या च तं जगाद गजाननम् ॥ १५॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
त्वदीयां भक्तिमुग्रां मे देहि सम्पूर्णभावतः ॥ १६॥
तथेति तमुवाचाथ गणेशो भक्तवत्सलः ।
क्षेत्रं त्वदीयमत्रैव भविष्यति मदाज्ञया ॥ १७॥
अमलाश्रमकं नाम्ना जनानां सेविनां सदा ।
अज्ञानज मलं हत्वा ज्ञानं दास्यति निर्मलम् ॥ १८॥
एवमुक्त्वांऽतर्दधे च गणेशो देवनायकः ।
भ्रूशुण्डी भक्तिभावेन भेजे वै तं निरन्तरम् ॥ १९॥
नान्यत् स मनसा क्वापि क्षेत्रं देवादिकं मुनिः ।
तीर्थं जज्ञौ स योगीन्द्रो गणेशानान्न संशयः ॥ २०॥
ततस्तत्र महाक्षेत्रे ब्राह्मणाद्या ययुर्मुदा ।
तत्रैव गणनाथं ते भेजिरे भक्तिभावतः ॥ २१॥
शिष्यास्तस्य महाभागा जाता ब्रह्मर्षयोऽमलाः ।
क्षेत्रसंन्यासभावेन तेऽसेवन्त महामुनिम् ॥ २२॥
भ्रूशुण्डिनस्तत्र तीर्थं गणेशस्य च सुन्दरम् ।
भुक्तिमुक्तिप्रदं प्रोक्तं स्नानमात्रेण जन्तवे ॥ २३॥
तस्यैवं दर्शनार्थं च मुनयः कश्यपादयः ।
शुकादियोगिनः सर्वे गत्वा तेऽपूजयन् मुदा ॥ २४॥
कृतार्थं मन्यमानाश्च स्वस्थलं ते ययुः पुनः ।
प्रशंसन्तो मुनिं सर्वे साक्षाच्छुण्डाधरं प्रभुम् ॥ २५॥
इन्द्रादयस्तमेवं च दर्शनार्थं समागताः ।
कृतकृत्याः स्वभावेन स्वालयं ते ययुः पुनः ॥ २६॥
ब्रह्मविष्णुमहेशाद्या ईश्वरास्ते महामुनेः ।
नित्यदर्शनसंसक्ता बभूवुर्हृष्टमानसाः ॥ २७॥
एवं प्रभावयुक्तः स भ्रूशुण्डी कथितो मया ।
चाण्डालो ब्राह्मणो जातो गणेशस्मरणेन वै ॥ २८॥
॥ इति श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते
भ्रूशुण्डिब्राह्मणत्ववर्णनं नाम षष्टितमोऽध्याये
गाणेश्वरस्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम्
READ
गणेश्वरस्तोत्रम् अथवा गाणेशतेजोवर्धनस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
