|| श्रीगर्वापहाराष्टकम् ||
स्थूलं विलोक्य वपुरात्मभुवां समूहं
जायां धनानि कुपथे पतितानि भूयः ।
किं तोषमेषि मनसा सकलं समाप्ते
पुण्ये वृथा तव भविष्यति मूढबुद्धे ॥ १॥
ईशं भजान्ध विनियुङ्क्ष्य बन्धनानि तत्र
साधून्समर्च परिपूजय विप्रवृन्दम् ।
दीनान् दयायुतदृशा परिपश्य नित्यम्
नेयं दशा तव दशाननतो विशिष्टा ॥ २॥
धनानि सङ्गृह्य निगृह्य रसं विगृह्य निगृह्य लोकं परिगृह्य मोहे ।
देहं वृथा पुष्टमिमं विधाय न साधवो मूढ सभाजिताः किम् ॥ ३॥
न नम्रता कृष्णजनेऽतिकृष्णधने परं नैव दयातिदीने ।
कुटुम्बपोषैकमते सदा न ते विधेहि बुद्धौ च विमर्षमन्तः ॥ ४॥
नैते हया नैव रथा न चोष्ट्रा न वारणा नेतरवाहनानि ।
विहाय देहं समये गते ते परम्प्रपातस्य त साधनानि ॥ ५॥
कृष्णस्य मायामवगत्य माया समूढतान्तं हृदये विधाय ।
तदर्थमेवाखिललौकिकं ते विदेहिरे वैदिकमप्यशेषम् ॥ ६॥
आयुः प्रयाति न हि याति सुतादिरात्मा
रायोऽखिला अपि विहाय मृतं व्रजन्ति ।
इत्थं विचिन्त्य विषयेषु विसृज्य सक्तिं
भक्तिं हरेः कुरु परां करुणार्णवस्य ॥ ७॥
विधाय महदाश्रयं समवहाय सक्तिं सृते-
र्निधाय चरणाम्बुजं हृदि हरेः सुखं संविश ।
किमर्थमतिचञ्चलं प्रकुरुषे मनः सम्पदो
विलोक्य न हिताश्चलाः सुखयितुं क्षमा दुर्मद ॥ ८॥
इति श्रीहरिरायग्रथितं श्रीगर्वापहाराष्टकं समाप्तम् ॥
Found a Mistake or Error? Report it Now