|| श्रीगौरीशस्तुतिः ||
(शिष्याशीर्वचनात्मकस्तवाः)
बालं चाममहीमहेन्द्रसुकृतक्षीराब्धिमध्योद्भवं
सोमं सोमशिशूत्तमाङ्ग सततं मौलौ निधायादरात् ।
श्रीमत्कृष्णमहीपसंज्ञमनिशं सिंहासनाध्यासिनं
विद्याऽऽयुर्धननीतिभिः प्रतिपदं गौरीश संवर्धय ॥ १॥
जित्वा मृत्युमथापमृत्युमखिलान् रोगांश्च हृत्वानिशं
प्राणम्राखिललोकरक्षणविधावाबद्धदीक्ष प्रभो ।
श्रीमत्कृष्णमहीपतिं ससहजं सिंहासनाध्यासिनं
मार्कण्डेयमिवादरेण सततं गौरीश संवर्धय ॥ २॥
शौर्यौदार्यमुखान्गुणाननितरप्राप्यान्ददत्सर्वदा
प्रालेयाचलसेतुमध्यविलसद्भूपालवर्येड्यताम् ।
दीर्घायुष्यमरोगतामपि ददच्छ्रीकृष्णभूपोत्तमं
मात्राद्यैः सततं कृपाजलनिधे गौरीश संवर्धय ॥ ३॥
सेनाधीशसुमन्त्रिभृत्यसहितं नव्योपमन्युं प्रभो
कृत्वा दीनजनावनैकनिपुणं कारुण्यवारान्निधे ।
बालं कृष्णमहीपसंज्ञमनिशं दत्त्वा च भक्तिं स्थिरां
हर्यक्षासनसंस्थितं ससहजं गौरीश संवर्धय ॥ ४॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीगौरीशस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now