Misc

गायत्रीतत्त्वस्तोत्रम्

Gayatritattvastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गायत्रीतत्त्वस्तोत्रम् ||

श्रीगणेशाय नमः ॥

श्रीगायत्र्यै नमः ।
श्रीगायत्रीतत्त्वमालामन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप्छदः,
परमात्मा देवता, हलो बीजानि, स्वराः शक्तयः, अव्यक्तं कीलकम्,
मम समस्तपापक्षयार्थे गायत्रीतत्त्वपाठे विनियोगः ।
चतुर्विशतितत्त्वानां यदेकं तत्त्वमुत्तमम् ।
अनुपाधि परम्ब्रह्म तत्परञ्ज्योतिरोमिति ॥ १॥

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य तत्परञ्ज्योतिरोमिति ॥ २॥

तत्सदादिपदैर्वाच्यं परमं पदमव्ययम् ।
अभेदत्वं पदार्थस्य तत्परञ्ज्योतिरोमिति ॥ ३॥

यस्य मायांशभागेन जगदुत्पद्यतेऽखिलम् ।
तस्य सर्वोत्तमं रूपमरूपस्याभिधीमहि ॥ ४॥

न पश्यन्ति परमं पश्यन्तो हि दिवौकसः ।
तं भूतानिलदेवं तु सुपर्णमुपधावताम् ॥ ५॥

यदंशः प्रेरितो जन्तुः कर्मपाशनियन्त्रितः ।
आजन्मकृतपापानामपहन्तुं दिवौकसः ॥ ६॥

इदं महामुनिप्रोक्तं गायत्रीतत्त्वमुत्तमम् ।
यः पठेत्परया भक्त्या स याति षरमां गतिम् ॥ ७॥

सर्ववेदपुराणेषु साङ्गोपाङ्गेषु यत्फलम् ।
सकृदस्य जपादेव तत्फलं प्राप्नुयान्नरः ॥ ८॥

अभक्ष्यभक्षणात्पूतो भवति ।
अगम्यागमनात्पूतो भवति । सर्वपापेभ्यः पूतो भवति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
मध्यन्दिनमुपयुञ्जानोऽसत्प्रतिग्रहादिना मुक्तो भवति ॥ ९॥

अनुप्लवं पुरुषाः पुरुषमभिवदन्ति यं यं काममभिध्यायति
तं तमेवाप्नोती पुत्रपौत्रान् कीर्तिसौभाग्यानि चोपलभते ।
सर्वभूतात्ममित्रं देहान्ते तद्विशिष्टो गायत्रीपरमं पदमाप्नोति ॥ १०॥

इति श्रीवेदसारे गायत्रीतत्त्वस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download गायत्रीतत्त्वस्तोत्रम् PDF

गायत्रीतत्त्वस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App