गायत्रीतत्त्वस्तोत्रम् PDF संस्कृत
Download PDF of Gayatritattvastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
गायत्रीतत्त्वस्तोत्रम् संस्कृत Lyrics
|| गायत्रीतत्त्वस्तोत्रम् ||
श्रीगणेशाय नमः ॥
श्रीगायत्र्यै नमः ।
श्रीगायत्रीतत्त्वमालामन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप्छदः,
परमात्मा देवता, हलो बीजानि, स्वराः शक्तयः, अव्यक्तं कीलकम्,
मम समस्तपापक्षयार्थे गायत्रीतत्त्वपाठे विनियोगः ।
चतुर्विशतितत्त्वानां यदेकं तत्त्वमुत्तमम् ।
अनुपाधि परम्ब्रह्म तत्परञ्ज्योतिरोमिति ॥ १॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य तत्परञ्ज्योतिरोमिति ॥ २॥
तत्सदादिपदैर्वाच्यं परमं पदमव्ययम् ।
अभेदत्वं पदार्थस्य तत्परञ्ज्योतिरोमिति ॥ ३॥
यस्य मायांशभागेन जगदुत्पद्यतेऽखिलम् ।
तस्य सर्वोत्तमं रूपमरूपस्याभिधीमहि ॥ ४॥
न पश्यन्ति परमं पश्यन्तो हि दिवौकसः ।
तं भूतानिलदेवं तु सुपर्णमुपधावताम् ॥ ५॥
यदंशः प्रेरितो जन्तुः कर्मपाशनियन्त्रितः ।
आजन्मकृतपापानामपहन्तुं दिवौकसः ॥ ६॥
इदं महामुनिप्रोक्तं गायत्रीतत्त्वमुत्तमम् ।
यः पठेत्परया भक्त्या स याति षरमां गतिम् ॥ ७॥
सर्ववेदपुराणेषु साङ्गोपाङ्गेषु यत्फलम् ।
सकृदस्य जपादेव तत्फलं प्राप्नुयान्नरः ॥ ८॥
अभक्ष्यभक्षणात्पूतो भवति ।
अगम्यागमनात्पूतो भवति । सर्वपापेभ्यः पूतो भवति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
मध्यन्दिनमुपयुञ्जानोऽसत्प्रतिग्रहादिना मुक्तो भवति ॥ ९॥
अनुप्लवं पुरुषाः पुरुषमभिवदन्ति यं यं काममभिध्यायति
तं तमेवाप्नोती पुत्रपौत्रान् कीर्तिसौभाग्यानि चोपलभते ।
सर्वभूतात्ममित्रं देहान्ते तद्विशिष्टो गायत्रीपरमं पदमाप्नोति ॥ १०॥
इति श्रीवेदसारे गायत्रीतत्त्वस्तोत्रं सम्पूर्णम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowगायत्रीतत्त्वस्तोत्रम्
READ
गायत्रीतत्त्वस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
