Misc

उद्दालककृता घुसृणेश्वरशिवस्तुतिः

Ghusrrineshvarashivastutihuddalakakrrita Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| उद्दालककृता घुसृणेश्वरशिवस्तुतिः ||

पार्वती
कुत्र क्षेत्रमिदं शम्भो त्रिनेत्रप्रियकारकम् ।
तत्क्षेत्रमहिमापारकथाश्रवणलालसम् ॥ ३५॥

मम चित्तमभूद्देव दयया तद्वदस्व माम् ।
शिवो गौरीवचः श्रुत्वा तत्क्षेत्रं प्राह शङ्करः ॥ ३६॥

ईश्वरः
भीमरथ्या उदग्भागे त्रिंशत्क्रोशोपरि स्थितम् ।
शूलपातं स्थितं तीर्थं तत्रास्त्येव शिवालयः ॥ ३७॥

शूलपातसरस्तीरे तताप परमं तपः ।
उद्दालको मुनिर्नाम्ना ज्ञानार्थं शङ्करस्तदा ॥ ३८॥

समभ्यर्च्य महादेवं बिल्वपत्रैर्महेश्वरम् ।
घुसृणीशं महादेवं मां तुष्टाव तदाम्बिके ॥ ३९॥

उद्दालकः
घुसृणीश महेश शङ्कर प्रणतामरभूरुह प्रसीद ।
दुरितापह पादपद्ममाद्यं घुसृणारुणमानतोऽस्मि नित्यम् ॥ ४०॥

अरुणारुणवह्निसोमनेत्रं करुणाशालि सुधायुताद्यपाङ्गम् ।
द्युमणिप्रभचारुदेहकान्तिं घुसृणीशं नु नतोऽस्मि देवराजम् ॥ ४१॥

वरुणाद्यमरार्चिताङ्घ्रियुग्मं वरुणालयदैत्यपूज्यपादम् ।
भगणाधिपशोभितोरुमौलिं घुसृणीशं नु नतोऽस्मि दुःखनाशम् ॥ ४२॥

करुणाकर देव दीनबन्धो सरणिं देहि विमुक्तिमार्गहेतौ ।
करणं विनिवेशयाशु ते पदाब्जे घुसृणीशान नतोऽस्मि भक्तियुक्तः ॥ ४३॥

मरणावसरे न कोऽपि शम्भो विनिवारक इत्यवैमि बुद्ध्या ।
शरणं चरणं शिव त्वदीयं घुसृणीशान नतोऽस्मि दुःखनाशम् ॥ ४४॥

शूलपातसरस्तीरे घुसृणेशं महेश्वरम् ।
दृष्ट्वा नत्वा च तल्लिङ्गं मुच्यते भवबन्धनात् ॥ १२४॥

चन्द्रोपेन्द्रादिविबुधैर्मुनिभिः पूजितः सदा ।
प्रातः सङ्गवमध्याह्ने दृष्ट्वा तु घुसृणीश्वरम् ॥ १२५॥

महाघसङ्घैर्मुक्तिश्च भक्तिं मयि लभेत सः ।
इत्येतद्देवि ते प्रोक्तं घुसृणीश्वरवैभवम् ॥ १२६॥

श्रृण्वन्पठन्वा मनुजो मम भक्तिरतो भवेत् ।
तत्र मां सम्यगाराध्य वसन्ति शिवतत्पराः ॥ १२७॥

तेषां मद्ज्ञानमखिलं दातुमिच्छाऽस्ति मे शिवे ।
ज्ञानं तल्लभते गौरि घुसृणीश्वरपूजनात् ॥ १२८॥

एकेन जन्मना मुक्तिर्भवेदज्ञाननाशिनी ॥ १२९॥

॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे उद्दालककृता घुसृणेश्वरशिवस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download उद्दालककृता घुसृणेश्वरशिवस्तुतिः PDF

उद्दालककृता घुसृणेश्वरशिवस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App