|| श्रीगिरिपल्लवनाथेश्वरस्तुतिः ||
(श्रीदेवदानक्षेत्रे)
पल्लवसदृक्षतावकपदविन्यासाज्जगाम पल्लवताम् ।
यद्गिरिरसौ ततस्त्वं गिरिपल्लवनाथशब्दवाच्योऽभूः ॥ १॥
वृक्षलतानां पल्लवमिह सिद्धं नैव भूमिधर्तुर्हि ।
शक्तिस्तवाद्भुतातो गिरिपल्लवमत्र दृष्टमतिचित्रम् ॥ २॥
गङ्गाधर करुणाकर बिम्बाधर बालकुमुदबन्धुधर ।
गरलाम्बरविनिवारण पादसरोजे नमस्ये ते ॥ ३॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीगिरिपल्लवनाथेश्वरस्तुतिः सम्पूर्णा ।
Found a Mistake or Error? Report it Now