|| श्रीगोकुलनन्दगोविन्ददेवाष्टकम् ||
कोटिकन्दर्पसन्दर्पविध्वंसन
स्वीयरूपामृताप्लावितक्ष्मातल ।
भक्तलोकेक्षणं सक्षणं तर्षयन्
गोकुलानन्द गोविन्द तुभ्यं नामः ॥ १॥
यस्य सौरभ्यसौलभ्यभाग्गोपिका
भाग्यलेशाय लक्ष्म्यापि तप्तं तपः ।
निन्दितेन्दीवरश्रीक तस्मै मुहु-
र्गोकुलानन्द गोविन्द तुभ्यं नामः ॥ २॥
वंशिकाकण्ठयोर्यः स्वरस्ते स चेत्
तालरागादिमान् श्रुत्यनुभ्राजितः ।
का सुधा ब्रह्म किं का नु वैकुण्ठमु-
द्गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ३॥
यत्पदस्पर्शमाधुर्यमज्जत्कुचा
धन्यतां यान्ति गोप्यो रमातोऽप्यलम् ।
यद्यशो दुन्दुभेर्घोषणा सर्वजि-
द्गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ४॥
यस्य फेलालवास्वादने पात्रतां
ब्रह्मरुद्रादयो यान्ति नैवान्यके ।
आधरं शीधुमेतेऽपि विन्दन्ति नो
गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ५॥
यस्य लीलामृतं सवथाकर्षकं
ब्रह्मसौख्यादपि स्वादु सर्वे जगुः ।
तत्प्रमाणं स्वयं व्याससूनुः शुको
गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ६॥
यत् षडैश्वर्यमप्यार्यभक्तात्मनि
ध्यातमुद्यच्चमत्कारमानन्दयेत् ।
नाथ तस्मै रसाम्भोधये कोटिशो
गोकुलानन्द गोविन्द तुभ्यं नामः ॥ ७॥
गोकुलानन्दगोविन्ददेवाष्टकं
यः पठेन् नित्यमुत्कण्ठितस्त्वत्पदोः ।
प्रेमसेवाप्तये सोऽचिरान्माधुरी
सिन्धुमज्जन्मना वाञ्छितं विन्दताम् ॥ ८॥
इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीगोकुलनन्दगोविन्ददेवाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now