|| श्रीगोकुलनाथाष्टकम् ||
भवभीतजनाखिलभीतिहरं
हरवन्दितनन्दतनूजरतम् ।
रतवृद्धगुरुद्विजभृत्यजनं
जनदुर्लभमार्गसुबोधकरम् ॥ १॥
करपद्मसुसेवितशैलधरं
धरणीतलविश्रुतसाधुगुणम् ।
गुणसिन्धुविमर्दितदुष्टमुखं
मुखकल्पितमार्गनिवृत्तिपरम् ॥ २॥
परमप्रियमङ्गलवेषधरं
वरबन्धुसुहृत्सुतलब्धसुखम् ।
सुखसागरमम्बुजचारुमुखं
मुखपङ्कजकीर्तितकृष्णकथम् ॥ ३॥
कथनीयगुणामृतवारिनिधिं
निधिसेवितमर्चितपद्मपदम् ।
पदपङ्कजसंश्रितविज्ञबुधं
बुधविठ्ठलनाथचतुर्थसुतम् ॥ ४॥
सुतरां करुणाब्धिमनन्तगुणं
गुणरत्नविराजितशुद्धतनुम् ।
तनुरत्नवशीकृतनन्दसुतं
सुतमित्रकलत्रसुसेव्यपदम् ॥ ५॥
पदपङ्कजपावितसाधुजनं
जनहेतुगृहीतमनुष्यतनुम् ।
तनुकान्तितिरस्कृतपञ्चशरं
शरणागतरक्षितभक्तजनम् ॥ ६॥
जनतोषणपोषणदत्तहृदं
हृदयार्पितगोपवधूरमणम् ।
रमणीयतरामलभक्तिकृतं
कृतकृष्णकथामृततृप्तजनम् ॥ ७॥
जनवाञ्छितकामदरत्नगुणं
गुणभूषणभूषितलोकगुरुम् ।
गुरुगोकुलनाथमुपास्यमहं
महतां परिसेवितमाकलये ॥ ८॥
श्रीमद्गोकुलनाथानामष्टकं यः पठेन्नरः ।
गोकुलेशपदाम्भोजभक्तिं स लभते पराम् ॥ ९॥
इति सिंहावलोकयमकगर्भ श्रीगोकुलनाथाष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now