गोमति स्तुति PDF

Download PDF of Gomati Stuti Hindi

MiscStuti (स्तुति संग्रह)हिन्दी

|| गोमति स्तुति || मातर्गोमति तावकीनपयसां पूरेषु मज्जन्ति ये तेऽन्ते दिव्यविभूतिसूतिसुभग- स्वर्लोकसीमान्तरे। वातान्दोलितसिद्धसिन्धुलहरी- सम्पर्कसान्द्रीभवन्- मन्दारद्रुमपुष्पगन्धमधुरं प्रासादमध्यासते। आस्तां कालकरालकल्मषभयाद् भीतेव काशर्यङ्गता मध्येपात्रमुदूढसैकत- भराकीर्णाऽवशीर्णामृता। गङ्गा वा यमुना नितान्तविषमां काष्ठां समालम्भिता- मातस्त्वं तु समाकृतिः खलु यथापूर्वं वरीवर्तस। या व्यालोलतरङ्गबाहु- विकसन्मुग्धारविन्देक्षणं भौजङ्गीं गतिमातनोति परितः साध्वी परा राजते। पीयूषादपि माधुरीमधिकयन्त्यारा- दुदाराशया साऽस्मत्पातकसातनाय भवतात्स्रोतस्वती गोमती। कुम्भाकारमुरीकरोषि कुहचित् क्वाप्यर्धचान्द्राकृतिं धत्से भूतलमानयष्टि- घटनामालम्बसे...

READ WITHOUT DOWNLOAD
गोमति स्तुति
Share This
Download this PDF