|| गोपालगुरुगोस्वामीप्रभोराष्टकम् ||
श्रीमन्मुरारितनयं विनयादमन्दं
वन्दे सदैव मकरध्वजपण्डिताख्यम् ।
श्रीगौरचन्द्रकृपयार्पितगौरवं श्री-
गोपालपूर्वगुरुरित्यभिधां दधे यः ॥ १॥
वन्दे तमेव तिलकं किल कल्पयित्वा
गौरप्रभुर्हरिपदाकृति यस्य भाले ।
स्वीयासने समुपवेश्य जगत्त्रयस्य
विस्मापिकामपि विकाशयति स्म शक्तिम् ॥ २॥
शिक्षागुरुं स्वकृपया स शचीतनूजो
यं कारणं किमपि वीक्ष्य चकार धीरम् ।
सिद्धाख्यायाप्यभिदधे स्वयमेव मञ्जु-
मेधेति तं गुरुवरं शरणं भजामि ॥ ३॥
श्रीराधया व्रजविधोरपि यश्च तुङ्ग-
विद्यानुगोऽप्यनुदिनं भजनेष्वनन्यः ।
नित्यं सखीगणयुतो रमते व्रजे श्री-
गोपालमेव कलये शरणं गुरुं तम् ॥ ४॥
गोस्वामिनः षडुदिता अधिकाश्चतुर्भिः
षष्ठिर्महान्त इह गौरहरेर्निदेशात् ।
गोपालका अतिशयात् किल यः शशंसुः
निःशंशया गुरुतया तमहं प्रणौमि ॥ ५॥
यत्प्रेमधन्यहृदयः स दयासमुद्रः
प्रोल्लास्य सान्द्रगुणतां प्रभुगौरचन्द्रः ।
जीवान् अतीवविनयेन समुद्दधार
वन्दे गुरूत्तममहं तमिमं महान्तम् ॥ ६॥
यस्तादृशोऽपि भगवद्गुणकर्मनाम्नां
सङ्कीर्तनश्रवणसंस्मरणादिभक्त्या ।
आपामरं जगदिदं स्वयमुद्दधार
गोपालपूर्वगुरुमेतमहं नतोऽस्मि ॥ ७॥
चैतन्यचन्द्रकृपया चिरमेव राधा-
कान्ताङ्घ्रिपद्मयुगयोः परिचर्ययोच्चैः ।
तद्भावभावितमतिर्न तनू बुबोध
गोपालपूर्वगुरुमेनमहं नतोऽस्मि ॥ ८॥
इति श्रीदीनबन्धुदासविरचितं गोपालगुरुगोस्वामीप्रभोराष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now